स्थानं महाप्रभावं हि सुरसिद्धनिषेवितम्
ईश्वर उवाच
इति प्रोक्तानि ते देवि वक्त्रलिंगानि पंच वै ॥
अथ ते संप्रवक्ष्यामि यत्र गौर्यास्तपो वनम् ॥
स्थानं महाप्रभावं हि सुरसिद्धनिषेवितम्
॥१॥सोमेशात्पूर्वदिग्भागे षष्टिधन्वंतरे स्थितम् ॥
यत्र देव्या तपस्तप्तं सत्या वै पूर्वजन्मनि
॥२॥कृत्वा च प्रणयात्कोपं मया सार्द्धं वरानने ॥
प्रभासक्षेत्रमासाद्य संस्थिता सा तपस्विनी
॥३॥देव्युवाच
किमर्थं सा परित्यज्य सती त्वां तपसि स्थिता ॥
कस्मिन्स्थाने स्थिता देवी एतन्मे विस्तराद्वद
॥४॥ईचर.उवाच
पुराऽऽसीस्त्वं महादेवि श्यामवर्णा मनस्विनी ॥
नामार्थं च मया प्रोक्ता कालीति रहसि स्थिता
॥५॥सा श्रुत्वा विस्मयं वाक्यं भृशं रोषपरायणा ॥
अब्रवीत्परुषं वाक्यं भृकुटी कुटिलानना
॥६॥यस्मात्कालीत्यहं प्रोक्ता त्वया शंभोऽतिविप्लवात् ॥
तस्माद्यास्यामि गौरीति भविष्यामि च यत्र हि
॥७॥एवमुक्त्वा महाभागा सखीगणसमावृता ॥
गत्वा प्रभासक्षेत्रं सा प्रतिष्ठाप्य महेश्वरम् ॥
गौरीश्वरेति विख्यातं पूजयंती विधानतः
॥८॥ततो लिंगसमीपस्था एकपादे स्थिता सती ॥
लिंगमाराधयंती सा चकार सुमहत्तपः
॥९॥पंचाग्निसाधिका देवी ग्रीष्म जाप्यपरायणा ॥
वर्षास्वाकाशशयना हेमंते सलिलाशया
॥१०॥यथा यथा तपो वृद्धिं याति तस्या महाप्रभा ॥
तथातथा शरीरस्य गौरत्वं प्रतिपद्यते
॥११॥कालेन महता गौरी सर्वांगेणाथ साऽभवत् ॥
ततो विहस्य भगवानुवाच शशिशेखरः
॥१२॥गौरीति च मुहुर्वाक्यमुत्तिष्ठ व्रज मन्दिरम् ॥
वरं वरय कल्याणि यत्ते मनसि वर्त्तते
॥१३॥गौर्युवाच
यो मामत्र स्थितां पश्येन्नारी वा पुरुषोऽथ वा ॥
स भूयात्सुतसौभाग्यैः सप्तजन्मानि संयुतः
॥१४॥गीतवाद्यादिकं नृत्यं यः कुर्यात्पुरतो मम ॥
तस्यान्वये न दौर्भाग्यं भूयात्तव प्रसादतः
॥१५॥मया प्रतिष्ठितं लिंगं पूर्वमभ्यर्च्य मां ततः ॥
पूजयिष्यति यो भक्त्या स यास्यति परं पदम्
॥१६॥गौरीश्वरेति विख्यातं नाम तस्य भवेत्प्रभो ॥
तथेत्यहं प्रतिज्ञाय तत्र स्थाने स्थितो ऽभवम्
॥१७॥देव्या सह महादेवि प्रहृष्टेनांतरात्मना ॥
अद्यापि अयने प्राप्ते उत्तरे दक्षिणेऽपि वा
॥१८॥गौरींस्थानं समभ्येति तत्र देव गुणैर्युतः ॥
तस्मिन्नहनि यस्तत्र विशिष्टानि फलानि च ॥
संप्रयच्छति विप्रेभ्यस्तस्य पुत्रा भवंति च
॥१९॥पुत्रहीना तु या नारी नालिकेरं प्रयच्छति ॥
पुत्रं सा लभते शीघ्रं सबलं लक्षणान्वितम्
॥२०॥घृतेन दीपकं तत्र या नारी संप्रयच्छति ॥
रक्तवर्त्त्या महादेवि यावत्तस्यैव तंतव
॥२१॥तावज्जन्मांतराण्येव सा सौभाग्यमवाप्नुयात्
॥२२॥या नृत्यं कुरुते तत्र भक्त्या परमया युता ॥
आरोग्यसुखसौभाग्यैः संयुक्ता सा भवेच्चिरम्
॥२३॥तत्रांते सुमहत्कुडं तीर्थं स्वच्छोदपूरितम् ॥
यः स्नानमाचरेत्तत्र मुच्यते सर्वपातकैः
॥२४॥यः श्राद्धं कुरुते तत्र पितॄनुद्दिश्य भक्तितः ॥
स याति परमं स्थानं पितृभिः सह पुण्यभाक्
॥२५॥तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
गीतवाद्यादिभिर्नृत्यै रात्रौ कुर्वीत जागरम्
॥२६॥दंपत्योः परिधानं च तत्र देयं सदक्षिणम् ॥
यश्चैतत्पठते नित्यं तृतीयायां विशेषतः ॥
पार्वत्याः पुरतो देवि स सौभाग्यमवाप्नुयात् ]
॥२७॥शृणुयाद्वाऽपि यो भक्त्या सम्यग्भक्तिपरायणः ॥
सोऽपि सौभाग्यमाप्नोति यावज्जीवं न संशयः
॥२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौरीतपोवनमाहात्म्यवर्णनंनामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥