ततो गच्छेन्महादेवि लिंगं शुक्रप्रतिष्ठितम्
ईश्वर उवाच
ततो गच्छेन्महादेवि लिंगं शुक्रप्रतिष्ठितम् ॥
सर्वपापहरं देवि विभूतीश्वरपश्चिमे
॥१॥नातिदूरे स्थितं तत्र स्वयं शुक्रेण निर्मितम् ॥
यत्र संजीवनीं प्राप्तो विद्यां रुद्रप्रभावतः
॥२॥संतप्य तु महाघोरं तपोवर्षसहस्रकम् ॥
संप्रसाद्य विरूपाक्षं योऽवाप ग्रहतां सुधीः
॥३॥ग्रस्तेन शंभुना येन देवकार्यार्थसिद्धये ॥
तत्रोदरगतेनैव तपस्तप्तं सुदुष्करम्
॥४॥वर्षाणामयुतं साग्रं तुष्टिं नीतो महेश्वरः ॥
निष्कासितस्ततः शीघ्रं शुक्र मार्गेण शंभुना
॥५॥ततः शुक्रेति नामाभूद्भार्गवस्य महात्मनः ॥
तदाराधयते लिंगं यः कृत्वा निश्चलं मनः
॥६॥मृत्युंजयं जपेल्लक्षं स समीहितमाप्नुयात्
॥७॥तं दृष्ट्वा त्वथवा स्पृष्ट्वा जन्मादिमरणान्तकात् ॥
मुच्यते पातकान्मृत्योः प्रसादात्तस्य भामिनि
॥८॥मृतसंजीवनार्थं यदैश्वर्यमणिमादिकम् ॥
प्राप्नुयान्नात्र संदेहो यस्य भक्तिः सुनिश्चला
॥९॥पंचामृतेन संस्नाप्य देवं शुकप्रतिष्ठितम् ॥
सुगन्धपुष्पैः संपूज्य शौक्रीं पीडां स नाप्नुयात्
॥१०॥इति सर्वं समासेन माहात्म्यं शुक्रदैवतम् ॥
कथितं तव सुश्रोणि श्रुतं पापभयापहम्
॥११॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शुक्रेश्वरमाहात्म्यवर्णनंनामाष्टचत्वारिंशोध्यायः ॥ ४८ ॥