मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २६३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 263

ततो गच्छेन्महादेवि च्छायालिंगमिति स्मृतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि च्छायालिंगमिति स्मृतम् ॥

उत्तरे न्यंकुमत्याश्च बह्वाश्चर्यं महत्फलम्

॥१॥

तं दृष्ट्वा मानवो देवि मुच्यते पंचपातकैः ॥

सार्द्धद्वादशहस्तं तु योजनत्रितयेन तु ॥

न पश्यंति महादेवि पापिष्ठा ये तु मानवाः

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये छायालिंग माहात्म्यवर्णनंनाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६३ ॥