मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३५२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 352

भल्लतीर्थमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि भल्लतीर्थमनुत्तमम् ॥

तस्याश्च पश्चिमे भागे यत्र विष्णुश्चतुर्भुजः

॥१॥

यत्र त्यक्तं शरीरं तु विष्णुना प्रभविष्णुना ॥

तस्मिन्मित्रवने रम्ये योजनार्द्धार्द्धविस्तृते

॥२॥

युगेयुगे महादेवि कल्पमन्वतरादिषु ॥

तत्रैव संस्थितिर्विष्णोर्नान्यत्र च रतिर्भवेत्

॥३॥

क्षेत्राणामादिक्षेत्रं तु वैष्णवं तद्विदुर्बुधाः ॥

तिस्रः कोट्यर्द्धकोटिश्च तीर्थानां प्रवराणि च

॥४॥

दिवि भुव्यंतरिक्षे च तानि तत्रैव भामिनि ॥

तत्र मूर्तिमती गंगा स्वयमेव व्यवस्थिता

॥५॥

विष्णोः संप्लवनार्थाय प्राणिनां च हिताय वै ॥

गंगा गया कुरुक्षेत्रं नैमिषं पुष्कराणि च

॥६॥

पुरी द्वारवतीं त्यक्त्वा अत्रैव वसते हरिः ॥

तस्यौर्ध्वदैहिकं देवि प्रकरोमि युगेयुगे

॥७॥

नभस्ये द्वादशीयोगे तत्र गत्वा स्वयं प्रिये ॥

करोमि तद्विधानेन तत्र ब्राह्मणपुंगवैः

॥८॥

तत्र दत्त्वा तु दानानि विधिवद्वेदपारगे ॥

तत्रैव द्वादशीयोगे स्नात्वा चैव विधानतः

॥९॥

सन्तर्प्य च पितॄन्भक्त्या मुच्यते सर्वपातकैः ॥

तत्र विष्णुं तु संपूज्य कृत्वा जागरणं निशि

॥१०॥

दीपादिदानं कृत्वा तु कृतकृत्योऽभिजायते

॥११॥

अथ तस्य प्रवक्ष्यामि पुरावृत्त महं प्रिये ॥

संहृत्य यादवान्सर्वान्वासुदेवः प्रतापवान्

॥१२॥

दुर्वाससाऽनुलिप्तेन पायसेन पदस्तले ॥

वज्रांगभूतदेहस्तु सर्वव्यापी जनार्द्दनः

॥१३॥

गत्वा तीरे समुद्रस्य समाधिस्थो बभूव ह ॥

सर्वस्रोतांसि संयम्य निवेश्यात्मानमात्मनि

॥१४॥

एतस्मिन्नंतरे प्राप्तो बाणहस्तो जराभिधः ॥

दाशपुत्रोऽतिकृष्णांगो मत्स्यघाती च पापकृत्

॥१५॥

तेन दृष्टस्ततो दूरान्निषादात्मसमुद्भवः ॥

विष्णोः पदं मृगं मत्वा शरं तस्य मुमोच ह

॥१६॥

ततोऽसौ पश्यते यावद्गत्वा तस्य च संनिधौ ॥

चतुर्बाहुं महाकायं शंखचक्रगदाधरम्

॥१७॥

पुरुषं नीलमेघाभं पुडरीकनिभे क्षणम् ॥

तं दृष्ट्वा भयभीतस्तु वेपमानः कृतांजलिः ॥

अब्रवीन्न मया ज्ञातस्त्वं विभो दिव्यरूपधृक्

॥१८॥

अज्ञानात्त्वं मया विद्धस्त्वत्पदाग्रे सुरोत्तम ॥

क्षन्तुमर्हसि मे नाथ न त्वं क्रोद्धुमिहार्हसि

॥१९॥

विष्णुरुवाच

शापस्यांतोद्य मे भद्र शरपातात्कृतस्त्वया ॥

तस्मात्त्वं मत्प्रसादेन स्वर्गं गच्छ महाद्युते

॥२०॥

ये चान्ये मामिहागत्य द्रक्ष्यंति हि नरोत्तमाः ॥

ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः

॥२१॥

भल्लेनाहं यतो विद्धस्त्वया पादतले शुभे ॥

भल्लतीर्थमिति ख्यातं ततो ह्येतद्भविष्यति

॥२२॥

हरिक्षेत्रमिति प्रोक्तं पूर्वं स्वायंभुवेऽन्तरे

॥२३॥

ईश्वर उवाच

इत्युक्त्वांतर्दधे विष्णुर्लुब्धकोऽपि दिवं गतः ॥

येऽत्र स्नानं करिष्यंति भक्त्या परमया युताः ॥

विष्णुलोकं गमिष्यंति प्रीत्या ते मत्प्रसादतः

॥२४॥

येऽत्र श्राद्धं करिष्यंति पितृभक्तिपरायणाः ॥

तृप्तिं तेषां गमिष्यंति पितरश्चैव तर्पिताः

॥२५॥

तस्मात्सर्वप्रयत्नेन प्राप्य तत्क्षेत्रमुत्तमम् ॥

दृश्यो देवश्चतुर्बाहुः स्नात्वा तीर्थे तु भल्लके

॥२६॥

मद्भक्तिबलदर्पिष्ठा मत्प्रियं न नमंति ये ॥

वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते

॥२७॥

मद्भक्तोऽपि हि यो भूत्वा भुंक्त एकादशीदिने ॥

मल्लिंगस्यार्चनं कार्यं न तेन पापबुद्धिना

॥२८॥

या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा ॥

न तां चोपोषयेद्यस्तु स पापिष्ठतराधिकः

॥२९॥

तद्वत्स द्वादशीयोगे भल्लतीर्थस्य संनिधौ ॥

यस्तु मां पूजयेद्भक्त्या नारी वाऽपि नरोऽपि वा ॥

तस्य जन्मसहस्राणि गृहभंगो न जायते

॥३०॥

इत्येतत्कथितं देवि माहात्म्यं पापनाशनम् ॥

भल्लतीर्थस्य विष्णोस्तु सर्व पातकनाशनम्

॥३१॥

तत्र विष्णोस्तु सांनिध्ये वायव्ये कुम्भमुत्तमम् ॥

भल्लतीर्थं तु विख्यातं यत्र भल्लहतो हरिः

॥३२॥

तत्र देयानि वासांसि पदं गावो विधानतः ॥

देयानि विप्रमुख्येभ्यः सम्यग्यात्राफलेप्सुभिः

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भल्लतीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५२ ॥