मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ५०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 50

राह्वीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं राहुप्रतिष्ठितम् ॥

शनैश्चरेश्वराद्देवि वायव्ये संप्रतिष्ठितम्

॥१॥

अजादेव्याश्चोत्तरतो धनुषां सप्तके स्थितम् ॥

मंगलायाः समीपस्थं नातिदूरे व्यवस्थितम्

॥२॥

लिंगं महाप्रभावं तु सैंहिकेयप्रतिष्ठितम् ॥

तत्र वर्षसहस्रं तु वैप्रचित्तिस्तपोऽकरोत्

॥३॥

स्वर्भानुः स महावीर्यो वक्त्रयोधी महासुराः ॥

समाराध्य महादेवं दिव्येन तपसा प्रभुम्

॥४॥

लिंगेऽवतारयामास जगद्दीपं महेश्वरम् ॥

यश्चैनं पूजयेद्भक्त्या नरः सम्यक्च पश्यति ॥

तस्य पापं क्षयं याति अपि ब्रह्मवधोद्भवम्

॥५॥

नांधो न बधिरो मूको न रोगी न च निर्द्धनः ॥

कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले

॥६॥

सुखसौभाग्यसंपन्नस्तदा भवति रूपवान् ॥

सर्वकामसमृद्धात्मा मोदते दिवि देववत्

॥७॥

इति ते कथितं देवि माहात्म्यं राहुदैवतम् ॥

श्रुत्वा तु मोहनिर्यातो नरो निष्कल्मषो भवेत्

॥८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राह्वीश्वरमाहात्म्यवर्णनंनाम पंचाशोऽध्यायः ॥ ५० ॥