भीमेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि श्वेतकेतुप्रतिष्ठितम् ॥
लिंगं महाप्रभावं तु भीमेनाराधितं पुरा
॥१॥केदारेश्वरसांनिध्ये नातिदूरे व्यवस्थितम् ॥
पूजयते त्तद्विधानेन क्षीरस्नानादिभिः क्रमात् ॥
यात्राफलमभिप्रेप्सुः प्रेत्य स्वर्गफलाय वै
॥२॥देव्युवाच
श्वेतकेतोस्तु यद्देव लिंगं प्रोक्तं त्वया मम ॥
तस्य जातं कथं देव नाम भीमेश्वरेति च
॥३॥कथं विनिर्मितं पूर्वं तस्मिन्दृष्टे तु किं फलम्
॥४॥ईश्वर उवाच
आसीत्त्रेतायुगे पूर्वं राजा स्वायंभुवेंतरे ॥
श्वेतकेतुरिति ख्यातो राजर्षिः सुमहातपाः
॥५॥स प्रभासं समागत्य प्रतिष्ठाप्य महे श्वरम् ॥
तपस्तेपे सुविपुलं सागरस्य तटे शुभे
॥६॥पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशगस्तथा ॥
हेमंते जलमध्यस्थो नव वर्षाणि पंच च
॥७॥ततश्चतुर्द्दशे देवि तपसा नियमेन च ॥
तुष्टेनोक्तो मया देवि वरं वरय सुव्रत
॥८॥श्वेतकेतुरथोवाच भक्तिं देहि सुनिश्चलाम् ॥
स्थानेऽस्मिन्स्थीयतां देव यदि तुष्टोऽसि मे प्रभो
॥९॥एवमस्त्वित्यथोक्त्वाऽहं तस्यांतर्द्धानमागतः ॥
ततः कालांतरेऽतीते श्वेतकेतुर्महाप्रभः
॥१०॥समाराध्य त्विदं लिंगं प्राप्तः स्थानं महोदयम् ॥
ततो जातं नाम तस्य श्वेतकेत्वीश्वरं श्रुतम्
॥११॥अग्नितीर्थे महापुण्ये सर्वपातकनाशने ॥
ततः कलियुगे प्राप्ते भ्रातृभिश्च समन्वितः
॥१२॥तीर्थयात्राप्रसंगेन यदा प्रभासमागतः ॥
भीमसेनो महाबाहुर्वायुपुत्रो ममांशजः
॥१३॥तल्लिंगं पूजयामास कृत्वा जागेश्वरं निजम् ॥
मत्वा तीर्थं महापुण्यं सागरस्य समीपतः
॥१४॥तदा प्रभृति भीमेशं पुनर्नामाऽभवच्छुभम् ॥
दृष्टमात्रेण तेनैव सकृल्लिंगेन भामिनि
॥१५॥अन्यजन्मकृतान्येव पापानि सुबहून्यपि ॥
नाशमायांति सर्वाणि तथैवामुष्मिकाणि तु
॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भीमेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥