मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 146

यमेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि धर्मराजप्रतिष्ठितम् ॥

यमेश्वरं महादेवं तस्यै वोत्तरतः स्थितम्

॥१॥

यदा शप्तो धर्मराजश्छायया वरवर्णिनि ॥

तदा तस्यापतत्पादः स च दुःखान्वितोऽभवत्

॥२॥

ततः प्राभासिके क्षेत्रे तपस्तेपे महातपाः ॥

स्थापयामास लिंगं तु तत्र देवस्य शूलिनः

॥३॥

तस्य तुष्टो महादेवस्ततः प्रत्यक्षतां गतः ॥

अब्रवीद्धर्म भद्रं ते वरं वरय चेप्सितम्

॥४॥

तदाऽब्रवीद्धर्मराजः पादः प्रपतितो मम ॥

प्रसादात्तव देवेश जायतां पुनरेव हि

॥५॥

एतल्लिंगं सुरश्रेष्ठ यन्मया निर्मितं तव ॥

एतद्ये भक्तिसंयुक्ताः पश्यंति प्राणिनो भुवि

॥६॥

तेषां तव प्रसादेन भूयात्पापविमोक्षणम्

॥७॥

एवं भविष्यतीत्युक्ता ह्यन्तर्धानं गतो हरः ॥

यमोऽपि लब्धपादस्तु पुनरेव दिवं ययौ

॥८॥

तस्मिन्दृष्टे सुरश्रेष्ठ यमलोकसमुद्भवम् ॥

न भयं विद्यते नृणामपि दुष्कृतकारिणाम्

॥९॥

भ्रातृद्वितीयासंयोगे स्नात्वा पुष्करिणीजले ॥

यमेश्वरसमीपस्थो यमेशमवलोकयेत्

॥१०॥

तिलपात्रं प्रदातव्यं दीपं गाः कांचना दिकम् ॥

यमदेवं समुद्दिश्य मुच्यते सर्वपातकैः

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४६ ॥