मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 151

तस्यैव दक्षिणे भागे तृतीयो भैरवः स्थित

ईश्वर उवाच

तस्यैव दक्षिणे भागे तृतीयो भैरवः स्थित ॥

ब्रह्मकुण्डसमीपे तु सावित्र्या संप्रतिष्ठितः

॥१॥

आराध्य तत्र देवेशं देवानां प्रपितामहम् ॥

वायुभक्षा निराहारा तोषयामास शंकरम्

॥२॥

तुष्टः प्राहेश्वरो देवि शंकरस्तां वराननाम्

॥३॥

योऽस्मिन्कुंडे नरः स्नात्वा मल्लिंगं पूजयिष्यति ॥

पौर्णमास्यां विधानेन गन्धपुष्पादिभिः क्रमात्

॥४॥

दास्यं तस्य वरा निष्टान्मनसाऽभीसिताञ्छुभान्

॥५॥

महापातकयुक्तोऽपि मुक्तो भवति पातकैः ॥

सर्वकामसमृद्धात्मा स भूयाद्वृषभध्वजः

॥६॥

इत्येवमुक्त्वा देवेशि ततोऽन्तर्धानमागतः ॥

सावित्री ब्रह्मलोके तु गता संस्थाप्य शंकरम्

॥७॥

इति संक्षेपतः प्रोक्तं सावित्रीशमहोदयम् ॥

शृणुयाद्यस्तु मतिमान्स मुक्तः पातकैर्भवेत्

॥८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये सावित्रीश्वरभैरवमाहात्म्य- वर्णनंनामैकपंचाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥