skipLink.label

सूक्तम् 24 — अर्चत्र्यो (10 मन्त्राः)

सूक्त 24

१० बार्हस्पत्यो भरद्वाज: । इन्द्र: ।त्रिष्टुप् ।

वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी ।

अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः

॥१॥

ततु॑रिर्वी॒रो नर्यो॒ विचे॑ता॒: श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः ।

वसु॒: शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म्

॥२॥

अक्षो॒ न च॒क्र्यो॑: शूर बृ॒हन् प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः ।

वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३तयो॑ रुरुहुरिन्द्र पू॒र्वीः

॥३॥

शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तय॑: सं॒चर॑णीः ।

व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मान॑: सुदामन्

॥४॥

अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वो ऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्र॑: ।

मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षा ऽर्यो वश॑स्य पर्ये॒तास्ति॑

॥५॥

वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः ।

तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वा॑:

॥६॥

न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति ।

वृ॒द्धस्य॑ चिद् वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना

॥७॥

न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।

अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द् भवति गा॒धम॑स्मै

॥८॥

ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न् प्रेषो य॑न्धि सुतपाव॒न् वाजा॑न् ।

स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम्

॥९॥

सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः ।

अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीरा॑:

॥१०॥