skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 57 — इन्द्रा (6 मन्त्राः)

सूक्त 57

६ बार्हस्पत्यो भरद्वाज: ।इंद्रापूषणौ । गायत्री ।

इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ । हु॒वेम॒ वाज॑सातये

॥१॥

सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वो॑: सु॒तम् । क॒र॒म्भम॒न्य इ॑च्छति

॥२॥

अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता । ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते

॥३॥

यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः । तत्र॑ पू॒षाभ॑व॒त्सचा॑

॥४॥

तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व । इन्द्र॑स्य॒ चा र॑भामहे

॥५॥

उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः । म॒ह्या इन्द्रं॑ स्व॒स्तये॑

॥६॥