६ बार्हस्पत्यो भरद्वाज: ।पूषा । गायत्री, ६ अनुष्टप् ।
य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म् । न तेन॑ दे॒व आ॒दिशे॑
॥१॥उ॒त घा॒ स र॒थीत॑म॒: सख्या॒ सत्प॑तिर्यु॒जा । इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते
॥२॥उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् । न्यै॑रयद्र॒थीत॑मः
॥३॥यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः । तत्सु नो॒ मन्म॑ साधय
॥४॥इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् । आ॒रात्पू॑षन्नसि श्रु॒तः
॥५॥आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुम् । अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये
॥६॥