skipLink.label

सूक्तम् 55 — एहि (6 मन्त्राः)

सूक्त 55

६ बार्हस्पत्यो भरद्वाज: ।पूषा । गायत्री ।

एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै । र॒थीॠ॒तस्य॑ नो भव

॥१॥

र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः । रा॒यः सखा॑यमीमहे

॥२॥

रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व । धीव॑तोधीवत॒: सखा॑

॥३॥

पू॒षणं॒ न्व१जाश्व॒मुप॑ स्तोषाम वा॒जिन॑म् । स्वसु॒र्यो जा॒र उ॒च्यते॑

॥४॥

मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः । भ्रातेन्द्र॑स्य॒ सखा॒ मम॑

॥५॥

आजास॑: पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् । दे॒वं व॑हन्तु॒ बिभ्र॑तः

॥६॥