skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 60 — श्नथद्वृत्रमुत (15 मन्त्राः)

सूक्त 60

१५ बार्हस्पत्यो भरद्वाज:। इन्द्राग्नी ।गायत्री;१-३, १३ त्रिष्टुप् ,१४ बृहती,१५ अनुष्टप्।

श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।

इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒: सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑

॥१॥

ता यो॑धिष्टम॒भि गा इ॑न्द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः ।

दिश॒: स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न्

॥२॥

आ वृ॑त्रहणा वृत्र॒हभि॒: शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् ।

यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभि॑:

॥३॥

ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तम् । इ॒न्द्रा॒ग्नी न म॑र्धतः

॥४॥

उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे । ता नो॑ मृळात ई॒दृशे॑

॥५॥

ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती । ह॒तो विश्वा॒ अप॒ द्विष॑:

॥६॥

इन्द्रा॑ग्नी यु॒वामि॒मे॒३ऽभि स्तोमा॑ अनूषत । पिब॑तं शम्भुवा सु॒तम्

॥७॥

या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा । इन्द्रा॑ग्नी॒ ताभि॒रा ग॑तम्

॥८॥

ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् । इन्द्रा॑ग्नी॒ सोम॑पीतये

॥९॥

तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् । कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑

॥१०॥

य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्य॑: । द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः

॥११॥

ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः । इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे

॥१२॥

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।

उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम्

॥१३॥

आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३रुप॑ गच्छतम् ।

सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे

॥१४॥

इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः । वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑

॥१५॥