skipLink.label

सूक्तम् 74 — सोमारुद्रा (4 मन्त्राः)

सूक्त 74

४ बार्हस्पत्यो भरद्वाज: । सोमारुद्रौ। त्रिष्टुप् ।

सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१ प्र वा॑मि॒ष्टयोऽर॑मश्नुवन्तु ।

दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे

॥१॥

सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ ।

आ॒रे बा॑धेथां॒ निॠ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु

॥२॥

सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् ।

अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत्

॥३॥

ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः ।

प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना

॥४॥