skipLink.label

सूक्तम् 72 — इन्द्रासोमा (5 मन्त्राः)

सूक्त 72

५ बार्हस्पत्यो भरद्वाज: । इन्द्रासोमौ।त्रिष्टुप् ।

इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः ।

यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑

॥१॥

इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।

उप॒ द्यां स्क॒म्भथु॒: स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि

॥२॥

इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।

प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑

॥३॥

इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु ।

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः

॥४॥

इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे ।

यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्य॒: सं वि॑व्यथुः पृतना॒षाह॑मुग्रा

॥५॥