skipLink.label

सूक्तम् 51 — उदु (16 मन्त्राः)

सूक्त 51

१६ ऋजिश्वा भारद्वाज: । विश्वे देवा:। त्रिष्टुप् , १३ – १५ उष्णिक्, १६ अनुष्टुप् ।

उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् ।

ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत्

॥१॥

वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्र॑: ।

ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न्

॥२॥

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् ।

अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्य॑: पाव॒कान्

॥३॥

रि॒शाद॑स॒: सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञ॑: सुवस॒नस्य॑ दा॒तॄन् ।

यून॑: सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु

॥४॥

द्यौ॒३ष्पित॒: पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः ।

विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त

॥५॥

मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः ।

यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व

॥६॥

मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ।

विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट

॥७॥

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् ।

नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे

॥८॥

ऋ॒तस्य॑ वो र॒थ्य॑: पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् ।

ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः

॥९॥

ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति ।

सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निॠ॒तधी॑तयो वक्म॒राज॑सत्याः

॥१०॥

ते न॒ इन्द्र॑: पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑ति॒: पञ्च॒ जना॑: ।

सु॒शर्मा॑ण॒: स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रास॑: सुगो॒पाः

॥११॥

नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ ।

आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द

॥१२॥

अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् । द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम्

॥१३॥

ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः । ज॒ही न्य१त्रिणं॑ प॒णिं वृको॒ हि षः

॥१४॥

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः । कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा

॥१५॥

अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वा॒: परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑

॥१६॥