skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 179 — उत्तिष्ठताव (3 मन्त्राः)

सूक्त 179

३ क्रमेण- शिविरौशीनरः, काशिराजः प्रतर्दनः, रौहिदश्वो वसुमनाः। इन्द्रः। त्रिष्टुप्,१ अनुष्टुप्।

उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् ।

यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑

॥१॥

श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् ।

परि॑ त्वासते नि॒धिभि॒: सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम्

॥२॥

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः ।

माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः

॥३॥