skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 189 — आय (3 मन्त्राः)

सूक्त 189

३ सार्पराज्ञी। आत्मा,सूर्यो वा। गायत्री।

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑:

॥१॥

अ॒न्तश्च॑रति रोच॒नाऽस्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव॑म्

॥२॥

त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभि॑:

॥३॥