skipLink.label

सूक्तम् 41 — समानमु (3 मन्त्राः)

सूक्त 41

३ सुहस्त्यो घौषेयः। अश्विनौ। जगती।

स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् ।

परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे

॥१॥

प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथ॑म् ।

विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना

॥२॥

अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसम् ।

विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना

॥३॥