skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 175 — प्र (4 मन्त्राः)

सूक्त 175

४ ऊर्ध्वग्रावा सर्प आर्बुदिः। ग्रावाणः। गायत्री।

प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा । धू॒र्षु यु॑ज्यध्वं सुनु॒त

॥१॥

ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् । उ॒स्राः क॑र्तन भेष॒जम्

॥२॥

ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः । वृष्णे॒ दध॑तो॒ वृष्ण्य॑म्

॥३॥

ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा । यज॑मानाय सुन्व॒ते

॥४॥