skipLink.label

सूक्तम् 21 — यज्ञाय (8 मन्त्राः)

सूक्त 21

८ ऐन्द्रो विमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा। अग्निः। आस्तारपंक्तिः।

आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे ।

य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे

॥१॥

त्वामु॒ ते स्वा॒भुव॑: शु॒म्भन्त्यश्व॑राधसः ।

वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे

॥२॥

त्वे ध॒र्माण॑ आसते जु॒हूभि॑: सिञ्च॒तीरि॑व ।

कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे

॥३॥

यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य ।

तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे

॥४॥

अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ ।

भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे

॥५॥

त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे ।

त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे

॥६॥

त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे ।

घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे

॥७॥

अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् ।

अ॒भि॒क्रन्द॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे

॥८॥