skipLink.label

सूक्तम् 183 — अपश्य (3 मन्त्राः)

सूक्त 183

३ प्रजावान् प्राजापत्यः। १ यजमानः, २ यजमानपत्नी, ३ होत्राशिवः। त्रिष्टुप्।

अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।

इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकाम

॥१॥

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् ।

उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूया॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकामे

॥२॥

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।

अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान्

॥३॥