skipLink.label

सूक्तम् 166 — ऋषभ (5 मन्त्राः)

सूक्त 166

५ ऋषभो वैराजः, ऋषभः शाक्वरो वा। सपत्न्घ्नम्। अनुष्टुप् , ५ महापंक्तिः।

ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् । ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म्

॥१॥

अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः

॥२॥

अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ । वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न्

॥३॥

अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ । आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे

॥४॥

यो॒ग॒क्षे॒मं व॑ आ॒दाया॒ऽहं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् ।

अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व

॥५॥