skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 188 — प्र (3 मन्त्राः)

सूक्त 188

३ आग्नेयः श्येनः। जातवेदा अग्निः। गायत्री।

प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् । इ॒दं नो॑ ब॒र्हिरा॒सदे॑

॥१॥

अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुष॑: । म॒हीमि॑यर्मि सुष्टु॒तिम्

॥२॥

या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः । ताभि॑र्नो य॒ज्ञमि॑न्वतु

॥३॥