skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 172 — चित्रो (3 मन्त्राः)

सूक्त 172

३ अगस्त्यो मैत्रावरुणिः । मरुतः। गायत्री।

चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः । मरु॑तो॒ अहि॑भानवः

॥१॥

आ॒रे सा व॑: सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑: । आ॒रे अश्मा॒ यमस्य॑थ

॥२॥

तृ॒ण॒स्क॒न्दस्य॒ नु विश॒: परि॑ वृङ्क्त सुदानवः । ऊ॒र्ध्वान् नः॑ कर्त जी॒वसे॑

॥३॥