skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 93 — अग्नीषोमाविम (12 मन्त्राः)

सूक्त 93

१२ गोतमो राहूगणः। अग्निषोमौ। १-३ अनुष्टुप्, ४-७, १२ त्रिष्टुप्, ८ जगती त्रिष्टुब्वा, ९-११ गायत्री ।

अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् ।

प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मय॑:

॥१॥

अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वच॑: सप॒र्यति॑ ।

तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म्

॥२॥

अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् ।

स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत्

॥३॥

अग्नी॑षोमा॒ चेति॒ तद् वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः ।

अवा॑तिरतं॒ बृस॑यस्य॒ शेषो ऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑:

॥४॥

यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।

यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान्

॥५॥

आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑: ।

अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम्

॥६॥

अग्नी॑षोमा ह॒विष॒: प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् ।

सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः

॥७॥

यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद् दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।

तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम्

॥८॥

अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिर॑: । सं दे॑व॒त्रा ब॑भूवथुः

॥९॥

अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति । तस्मै॑ दीदयतं बृ॒हत्

॥१०॥

अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् । आ या॑त॒मुप॑ न॒: सचा॑

॥११॥

अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूद॑: ।

अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म्

॥१२॥