skipLink.label

सूक्तम् 10 — अग्ने (8 मन्त्राः)

सूक्त 10

८ वामदेवो गौतमः। अग्निः। पादपंक्तिः, ४, ६, ७, उष्णिग्वा, ५ महापदपंक्तिः, ८ त्रिष्टुप्।

अग्ने॒ तम॒द्याऽश्वं॒ न स्तोमै॒: क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहै॑:

॥१॥

अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑

॥२॥

ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१र्ण ज्योति॑: । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः

॥३॥

आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्मा॑:

॥४॥

तव॒ स्वादि॒ष्ठा ऽग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः । श्रि॒ये रु॒क्मो न रो॑चत उपा॒के

॥५॥

घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् । तत् ते॑ रु॒क्मो न रो॑चत स्वधावः

॥६॥

कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् । इ॒त्था यज॑मानादृतावः

॥७॥

शि॒वा न॑: स॒ख्या सन्तु॑ भ्रा॒त्रा ऽग्ने॑ दे॒वेषु॑ यु॒ष्मे । सा नो॒ नाभि॒: सद॑ने॒ सस्मि॒न्नूध॑न्

॥८॥