skipLink.label

सूक्तम् 30 — नकिरिन्द्र (24 मन्त्राः)

सूक्त 30

२४ वामदेवो गौतमः। इन्द्रः, ९-११ इन्द्रोषसो। गायत्री, ८-२४ अनुष्टुप्।

नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् । नकि॑रे॒वा यथा॒ त्वम्

॥१॥

स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः । स॒त्रा म॒हाँ अ॑सि श्रु॒तः

॥२॥

विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इन्द्र युयुधुः । यदहा॒ नक्त॒माति॑रः

॥३॥

यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते । मु॒षा॒य इ॑न्द्र॒ सूर्य॑म्

॥४॥

यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् । त्वमि॑न्द्र व॒नूँरह॑न्

॥५॥

यत्रो॒त मर्त्या॑य॒ कमरि॑णा इन्द्र॒ सूर्य॑म् । प्राव॒: शची॑भि॒रेत॑शम्

॥६॥

किमादु॒तासि॑ वृत्रह॒न् मघ॑वन् मन्यु॒मत्त॑मः । अत्राह॒ दानु॒माति॑रः

॥७॥

ए॒तद् घेदु॒त वी॒र्य१मिन्द्र॑ च॒कर्थ॒ पौंस्य॑म् । स्त्रियं॒ यद् दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः

॥८॥

दि॒वश्चि॑द् घा दुहि॒तरं॑ म॒हान् म॑ही॒यमा॑नाम् । उ॒षास॑मिन्द्र॒ सं पि॑णक्

॥९॥

अपो॒षा अन॑सः सर॒त् सम्पि॑ष्टा॒दह॑ बि॒भ्युषी॑ । नि यत्सीं॑ शि॒श्नथ॒द् वृषा॑

॥१०॥

ए॒तद॑स्या॒ अन॑: शये॒ सुस॑म्पिष्टं॒ विपा॒श्या । स॒सार॑ सीं परा॒वत॑:

॥११॥

उ॒त सिन्धुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ । परि॑ ष्ठा इन्द्र मा॒यया॑

॥१२॥

उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् । पुरो॒ यद॑स्य सम्पि॒णक्

॥१३॥

उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ । अवा॑हन्निन्द्र॒ शम्ब॑रम्

॥१४॥

उ॒त दा॒सस्य॑ व॒र्चिन॑: स॒हस्रा॑णि श॒ताव॑धीः । अधि॒ पञ्च॑ प्र॒धीँरि॑व

॥१५॥

उ॒त त्यं पु॒त्रम॒ग्रुव॒: परा॑वृक्तं श॒तक्र॑तुः । उ॒क्थेष्विन्द्र॒ आभ॑जत्

॥१६॥

उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पति॑: । इन्द्रो॑ वि॒द्वाँ अ॑पारयत्

॥१७॥

उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिन्द्र पा॒रत॑: । अर्णा॑चि॒त्रर॑थावधीः

॥१८॥

अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् । न तत् ते॑ सु॒म्नमष्ट॑वे

॥१९॥

श॒तम॑श्म॒न्मयी॑नां पु॒रामिन्द्रो॒ व्या॑स्यत् । दिवो॑दासाय दा॒शुषे॑

॥२०॥

अस्वा॑पयद् द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथै॑: । दा॒साना॒मिन्द्रो॑ मा॒यया॑

॥२१॥

स घेदु॒तासि॑ वृत्रहन् त्समा॒न इ॑न्द्र॒ गोप॑तिः । यस्ता विश्वा॑नि चिच्यु॒षे

॥२२॥

उ॒त नू॒नं यदि॑न्द्रि॒यं क॑रि॒ष्या इ॑न्द्र॒ पौंस्य॑म् । अ॒द्या नकि॒ष्टदा मि॑नत्

॥२३॥

वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा । वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती

॥२४॥