skipLink.label

सूक्तम् 36 — अनश्वो (9 मन्त्राः)

सूक्त 36

९ वामदेवो गौतमः। ऋभवः।जगती, ९ त्रिष्टुप्।

अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रज॑: ।

म॒हत् तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ

॥१॥

रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया॑ ।

ताँ ऊ॒ न्व१स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि

॥२॥

तद् वो॑ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नम् ।

जिव्री॒ यत् सन्ता॑ पि॒तरा॑ सना॒जुरा॒ पुन॒र्युवा॑ना च॒रथा॑य॒ तक्ष॑थ

॥३॥

एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॑: ।

अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद् व॑ उ॒क्थ्य॑म्

॥४॥

ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न् नर॑: ।

वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः

॥५॥

स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टर॑: ।

स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः

॥६॥

श्रेष्ठं॑ व॒: पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो॑ वाजा ऋभव॒स्तं जु॑जुष्टन ।

धीरा॑सो॒ हि ष्ठा क॒वयो॑ विप॒श्चित॒स्तान् व॑ ए॒ना ब्रह्म॒णा वे॑दयामसि

॥७॥

यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना ।

द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वय॑:

॥८॥

इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त् तक्षता नः ।

येन॑ व॒यं चि॒तये॒मात्य॒न्यान् तं वाजं॑ चि॒त्रमृ॑भवो ददा नः

॥९॥