७ वामदेवो गौतमः। उषाः। गायत्री।
प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसु॑: । दि॒वो अ॑दर्शि दुहि॒ता
॥१॥अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री । सखा॑भूद॒श्विनो॑रु॒षाः
॥२॥उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि । उ॒तोषो॒ वस्व॑ ईशिषे
॥३॥या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित् सू॑नृतावरि । प्रति॒ स्तोमै॑रभुत्स्महि
॥४॥प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मय॑: । ओषा अ॑प्रा उ॒रु ज्रय॑:
॥५॥आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तम॑: । उषो॒ अनु॑ स्व॒धाम॑व
॥६॥आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् । उष॑: शु॒क्रेण॑ शो॒चिषा॑
॥७॥