skipLink.label

सूक्तम् 25 — को (8 मन्त्राः)

सूक्त 25

८ वामदेवो गौतमः। इन्द्रः। त्रिष्टुप्।

को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष ।

को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे

॥१॥

को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः ।

क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती

॥२॥

को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे ।

कस्या॒श्विना॒विन्द्रो॑ अ॒ग्निः सु॒तस्यां॒ऽशोः पि॑बन्ति॒ मन॒सावि॑वेनम्

॥३॥

तस्मा॑ अ॒ग्निर्भार॑त॒: शर्म॑ यंस॒ज्ज्योक् प॑श्या॒त् सूर्य॑मु॒च्चर॑न्तम् ।

य इन्द्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णाम्

॥४॥

न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑ति॒: शर्म॑ यंसत् ।

प्रि॒यः सु॒कृत् प्रि॒य इन्द्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी

॥५॥

सु॒प्रा॒व्य॑: प्राशु॒षाळे॒ष वी॒रः सुष्वे॑: प॒क्तिं कृ॑णुते॒ केव॒लेन्द्र॑: ।

नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवह॒न्तेदवा॑चः

॥६॥

न रे॒वता॑ प॒णिना॑ स॒ख्यमिन्द्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते ।

आस्य॒ वेद॑: खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत्

॥७॥

इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र॑म् ।

इन्द्रं॑ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो॑ वाज॒यन्तो॑ हवन्ते

॥८॥