skipLink.label

सूक्तम् 22 — यन्न (11 मन्त्राः)

सूक्त 22

११ वामदेवो गौतमः। इन्द्रः। त्रिष्टुप्।

यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान् क॑रति शु॒ष्म्या चि॑त् ।

ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑

॥१॥

वृषा॒ वृष॑न्धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑म॒: शची॑वान् ।

श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्या॒: पर्वा॑णि स॒ख्याय॑ वि॒व्ये

॥२॥

यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑: ।

दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ द्याममे॑न रेजय॒त् प्र भूम॑

॥३॥

विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौर्ऋ॒ष्वाज्जनि॑मन् रेजत॒ क्षाः ।

आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत् परि॑ज्मन् नोनुवन्त॒ वाता॑:

॥४॥

ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित् सव॑नेषु प्र॒वाच्या॑ ।

यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः

॥५॥

ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नव॑: सिस्रते॒ वृष्ण॒ ऊध्न॑: ।

अधा॑ ह॒ त्वद् वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त

॥६॥

अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिन्द्र स्तवन्त॒ स्वसा॑रः ।

यत् सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै॑

॥७॥

पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः ।

अ॒स्म॒द्र्य॑क् शुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः

॥८॥

अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि ।

अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य

॥९॥

अ॒स्माक॒मित् सु शृ॑णुहि॒ त्वमि॑न्द्रा॒ऽस्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् ।

अ॒स्मभ्यं॒ विश्वा॑ इषण॒: पुरं॑धीर॒स्माकं॒ सु म॑घवन् बोधि गो॒दाः

॥१०॥

नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्य॑: सदा॒साः

॥११॥