skipLink.label

सूक्तम् 21 — वावृधानस्तविषीर्यस्य (11 मन्त्राः)

सूक्त 21

११ वामदेवो गौतमः। इन्द्रः। त्रिष्टुप्।

आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूर॑: ।

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त्

॥१॥

तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् ।

यस्य॒ क्रतु॑र्विद॒थ्यो॒३ न स॒म्राट् सा॒ह्वान्तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः

॥२॥

आ या॒त्विन्द्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।

स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न् परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑

॥३॥

स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् ।

यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑

॥४॥

उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न् यज॑ध्यै ।

ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑

॥५॥

धि॒षा यदि॑ धिष॒ण्यन्त॑: सर॒ण्यान् त्सद॑न्तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।

आ दु॒रोषा॑: पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान् त्सं॒वर॑णेषु॒ वह्नि॑:

॥६॥

स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्ण॒: सिष॑क्ति॒ शुष्म॑: स्तुव॒ते भरा॑य ।

गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद् धि॒ये प्राय॑से॒ मदा॑य

॥७॥

वि यद् वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।

वि॒दद् गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३ वह॑न्ति

॥८॥

भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र ।

का ते॒ निष॑त्ति॒: किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑

॥९॥

ए॒वा वस्व॒ इन्द्र॑: स॒त्यः स॒म्राड्ढन्ता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः ।

पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य

॥१०॥

नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्य॑: सदा॒साः

॥११॥