skipLink.label

सूक्तम् 43 — कस्येमा (7 मन्त्राः)

सूक्त 43

७ पुरुमीळहाजमीळहौ सौहोत्रौ। अश्विनौ। त्रिष्टुप्।

क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते ।

कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्याम्

॥१॥

को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शम्भ॑विष्ठः ।

रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत

॥२॥

म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् ।

दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथ॒: शचि॑ष्ठा

॥३॥

का वां॑ भू॒दुप॑माति॒: कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।

को वां॑ म॒हश्चि॒त् त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती

॥४॥

उ॒रु वां॒ रथ॒: परि॑ नक्षति॒ द्यामा यत् स॑मु॒द्राद॒भि वर्त॑ते वाम् ।

मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न् यत् सीं॑ वां॒ पृक्षो॑ भु॒रज॑न्त प॒क्वाः

॥५॥

सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न् घृ॒णा वयो॑ऽरु॒षास॒: परि॑ ग्मन् ।

तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्याया॑:

॥६॥

इ॒हेह॒ यद् वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।

उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक्

॥७॥