skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 27 — गर्भे (5 मन्त्राः)

सूक्त 27

५ वामदेवो गौतमः। श्येनः, ५ इन्द्रो वा। त्रिष्टुप्, ५ शक्वरी।

गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ ।

श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम्

॥१॥

न घा॒ स मामप॒ जोषं॑ जभारा॒ऽभीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण ।

ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः

॥२॥

अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद् यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् ।

सृ॒जद् यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन्

॥३॥

ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः ।

अ॒न्तः प॑तत् पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद् वेः

॥४॥

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्ध॑: ।

अ॒ध्व॒र्युभि॒: प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त् पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त् पिब॑ध्यै

॥५॥