skipLink.label

सूक्तम् 55 — को (10 मन्त्राः)

सूक्त 55

१० वामदेवो गौतमः। विश्वे देवाः। त्रिष्टुप् ८-१० गायत्री ।

को व॑स्त्रा॒ता व॑सव॒: को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः ।

सही॑यसो वरुण मित्र॒ मर्ता॒त् को वो॑ऽध्व॒रे वरि॑वो धाति देवाः

॥१॥

प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न् वि यदु॒च्छान् वि॑यो॒तारो॒ अमू॑राः ।

वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचन्त द॒स्माः

॥२॥

प्र प॒स्त्या॒३मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीम् ।

उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे

॥३॥

व्य॑र्य॒मा वरु॑णश्चेति॒ पन्था॑मि॒षस्पति॑: सुवि॒तं गा॒तुम॒ग्निः ।

इन्द्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यन्त॒मम॑व॒द् वरू॑थम्

॥४॥

आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य ।

पात् पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत्

॥५॥

नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः ।

स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३ अप॑ व्रन्

॥६॥

दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।

न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः

॥७॥

अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य । तान्य॒स्मभ्यं॑ रासते

॥८॥

उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु । अ॒स्मभ्यं॑ वाजिनीवति

॥९॥

तत् सु न॑: सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रो॑ नो॒ राध॒सा ग॑मत्

॥१०॥