skipLink.label

सूक्तम् 47 — वायो (4 मन्त्राः)

सूक्त 47

४ वामदेवो गौतमः। इन्द्रवायू, १ वायुः। अनुष्टुप् ।

वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।

आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता

॥१॥

इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः ।

यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क्

॥२॥

वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती ।

नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये

॥३॥

या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।

अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम्

॥४॥