skipLink.label

सूक्तम् 37 — यथा (8 मन्त्राः)

सूक्त 37

८ वामदेवो गौतमः। ऋभवः। त्रिष्टुप्, ५-८ अनुष्टुप्।

उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानै॑: ।

यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म्

॥१॥

ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः ।

प्र व॑: सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः

॥२॥

त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ व॒: स्तोमो॑ वाजा ऋभुक्षणो द॒दे व॑: ।

जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म्

॥३॥

पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒ताऽय॑:शिप्रा वाजिनः सुनि॒ष्काः ।

इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य

॥४॥

ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म् ।

इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म्

॥५॥

सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म् ।

स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता

॥६॥

वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे ।

अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑

॥७॥

तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् ।

समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये

॥८॥