मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय २३

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 23

वनस्थयतिधर्मनिरूपणम्

श्रीनारायण उवाच

वानप्रस्थस्य वक्ष्यामि नियमानथ ते मुने ॥

तृतीय आयुषो भागे तृतीयाश्रम ईरितः

॥१॥

अनुकूला स्वसेवायां विरक्ता च तपःप्रिया ॥

यदि पत्नी भवेत्तर्हि तया सह वनं विशेत्

॥२॥

अन्यथा तु सुतादिभ्यस्तस्याः पोषणरक्षणम् ॥

आदिश्य स्वयमेकाकी विरक्तो वनमाविशेत्

॥३॥

निर्भयो निवसेत्तत्र तपोरुचिरतन्द्रितः ॥

कुर्यादुटजमग्न्यर्थं स्वयं तु बहिरावसेत्

॥४॥

भवेत्पञ्चतपा ग्रीष्म उदवासश्च शैशिरे ॥

आसारषाट्च वर्षासु जितक्रोधो जितेन्द्रियः

॥५॥

वासश्च तार्णं पार्णं वा वसीताजिनवल्कलम् ॥

भुञ्जीत ऋषिधान्यानि वन्यं कन्दफलादि वा

॥६॥

अग्निपक्वं वार्कपक्वमपक्वं वापि भक्षयेत् ॥

अभावे त्वेष दन्तानामश्मोलूखलकुट्टितम्

॥७॥

स्वयमेवाहरेदन्नं यथाकालं दिनेदिने ॥

काले पराहृतं वापि गृह्णीयान्नान्यदा क्वचित्

॥८॥

कालेपि कृष्टपच्यं तु न गृह्णीयादनापदि ॥

वन्यैरेवाग्निकार्यं च धान्यैः कुर्वीत पूर्ववत्

॥९॥

रक्षेत्कमण्डलुं दण्डमग्निहोत्रपरिच्छदान् ॥

केशरोमश्मश्रुनखान्धारयेन्मलिनान्दतः

॥१०॥

अंगान्यमर्दयन्स्नायाद्भूतले च शयीत सः ॥

देशकाल बलावस्थानुसारेण तपश्चरेत्

॥११॥

फेनपाश्चौदुम्बराश्च वालखिल्यास्तथैव च ॥

वैखानसेति कथिताश्चतुर्द्धा वनवासिनः

॥१२॥

यथाशक्ति द्वादशाब्दानष्टौ वा चतुरो वने ॥

वसेद्द्वावेकमेवापि ततः संन्यासमाश्रयेत्

॥१३॥

यदि स्यात्तीव्रवैराग्यं तर्हि न्यासो हितावहः ॥

वसेत्तत्रैवाऽन्यथा तु यावज्जीवं वने द्विजः

॥१४॥

यथाविधि कृतत्यागस्तुरीयाश्रममास्थितः ॥

साच्छादनं तु कौपीनं कन्थामेकां च धारयेत्

॥१५॥

दण्डं कमण्डलुं चाम्बुगालनं बिभृयाच्च सः ॥

सदाचारद्विजगृहे काले भिक्षां समाचरेत्

॥१६॥

न कुर्यात्प्रत्यहं भिक्षामेकस्यैव गृहे यतिः ॥

रसलुब्धो भवेन्नेव सकृच्च मितभुग्भवेत्

॥१७॥

वनस्थाश्रमिणो भिक्षां प्रायो गृह्णीत भिक्षुकः ॥

तदन्धसातिशुद्धेन शुद्ध्यत्येवाऽस्य यन्मनः

॥१८॥

घ्राणेपि मांससुरयोः पाराकं व्रतमाचरेत् ॥

शौचाचारविशुद्धः स्याच्छूद्रादींश्चापि न स्पृशेत्

॥१९॥

नित्यं कुर्याद्विष्णुपूजा मद्याद्विष्णोर्न्निवेदितम् ॥

द्वादशार्णं जपेद्विष्णोरष्टाक्षरमनुं च वा

॥२०॥

असद्वादं न कुर्वीत वृत्त्यर्थं नाचरेत्कथाम् ॥

असच्छास्त्रे न सक्तः स्यान्नोपजीवेच्च जीविकाम्

॥२१॥

सच्छास्त्रमभ्यसेच्चासौ बन्धमोक्षानुदर्शनम् ॥

मठादीन्नैव बध्नीयादहन्ताममते त्यजेत्

॥२२॥

चातुर्मास्यं विनैकत्र वसेन्नाऽसावनापदि ॥

आत्मनश्च हरे रूपं विद्याज्ज्ञानेन तत्त्वतः

॥२३॥

कामं क्रोधं भयं वैरं धनधान्यादिसंग्रहम् ॥

नैव कुर्यात्पालयेत यमांश्च नियमान्यतिः

॥२४॥

तीव्रज्ञानविरागाभ्यां संपन्नोपि यतिर्ध्रुवम् ॥

स्त्रीवित्तभूषासद्वस्त्रसंसर्गाद्भ्रष्टतां व्रजेत्

॥२५॥

पुष्प चन्दनतैलादिसुगन्धिद्रव्यवर्जनम् ॥

त्यागी कुर्वीतान्यथा तु भवेद्देहात्मधीः स वै

॥२६॥

आहारो यस्य यावांस्तं तावान्स्त्रीकाम आविशेत् ॥

अतो मितं नीरसं च भोजनं त्यागिनो हितम्

॥२७॥

न श्राव्या ग्राम्यवार्त्ता च मोक्षसिद्धिमभीप्सता ॥

नश्येद्यच्छ्रवणान्नॄणां सद्यो विष्णुकथा रुचिः

॥२८॥

अपि चित्रमयीं नारीं त्यागी नेक्षेत न स्पृशेत् ॥

स्त्र्याकारदर्शनादेव भ्रष्टा भूरि तपस्विनः

॥२९॥

कुटीचको बहूदश्च हंसः परमहंसकः ॥

एवं चतुर्द्धा कथितो यतिर्वैराग्यभेदतः

॥३०॥

काषायवाससो ये मे भविष्याः साधवश्च तैः ॥

कार्यं मदर्थपाकादि तुर्याश्रमस्थितैरपि

॥३१॥

श्रीवासुदेवभक्ता ये तीव्रवैराग्यशालिनः ॥

तेषां धर्मस्तु तत्सेवा प्रोक्ताहस्सु च रात्रिषु

॥३२॥

एकोपि च क्षणस्तेषां ज्ञानविज्ञानभूयसाम् ॥

भक्तिं नवविधां विष्णोर्विना व्यर्थो न वै भवेत्

॥३३॥

सर्वेर्गुणैरुपेतोपि भगवद्विमुखो यदि ॥

स्वजनोपि भवेत्तं तु जह्युरेव हि वैष्णवाः

॥३४॥

प्रासादिकं हरेरन्नं प्रोक्षितं तत्पदाम्बुना ॥

भुञ्जीरंस्तुलसीमिश्रं प्रत्यहं सात्वता जनाः

॥३५॥

स्त्रीणां च स्त्रीषु सक्तानां प्रसंगो विष्णुचिन्तकैः ॥

सर्वथैव परित्याज्यो भवेत्तद्ध्यानमन्यथा

॥३६॥

भगवन्तं वासुदेवं विनैकमितरः पुमान् ॥

कोपि नास्त्येव यो नारीं समीक्ष्य न विमुह्यति

॥३७॥

यत्र स्थित्या मुहुः स्त्रीणां स्यातां शब्दश्रुतीक्षणे ॥

त्यागी तत्र वसेन्नैव वसन्धर्मच्युतो भवेत्

॥३८॥

कामो लोभो रसास्वादः स्नेहो मानस्तथा च रुट् ॥

एते त्याज्याः प्रयत्नेन षड्दोषाः संसृतिप्रदाः

॥३९॥

प्रोक्तेषु धर्मेष्वेतेषु यस्ययस्य च्युतिर्भवेत् ॥

यथाशक्ति यथाशास्त्रं कार्या तत्तस्य निष्कृतिः

॥४०॥

इत्थं चतुर्णां वर्णानामाश्रमाणां च नारद ॥

धर्माः संक्षेपतः प्रोक्ता वैष्णवानां च ते मया

॥४१॥

वर्णी यतिश्च धर्मस्थो ब्रह्मलोकमुपैति वै ॥

ऋषिलोकं वनस्थश्च गृहस्थः स्वर्गमाप्नुयात्

॥४२॥

भक्त्या सहैताञ्छ्रीविष्णोराचरेयुस्तु ये जनाः ॥

ते तु सर्वेपि देहान्ते विष्णुलोकमवाप्नुयुः

॥४३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वनस्थयतिधर्मनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥