लक्ष्मीनारायणविवाहोत्सवनिरूपणम्
स्कन्द उवाच
ब्रह्मा प्रजेश्वराः शम्भुर्मनवश्च महर्षयः ॥
आदित्यवसुरुद्राश्च सिद्धगन्धर्वचारणाः
॥१॥साध्याश्च मरुतश्चैव विश्वेदेवा दिगीश्वराः ॥
दस्रौ वह्निश्चन्द्रमाश्च स्वयं धर्मः प्रजापतिः
॥२॥सुपर्णः किन्नराश्चैव ये चान्ये गणदेवताः ॥
शेपाद्या वैष्णवा नागा देवपत्न्यश्च सर्वशः
॥३॥सावित्री पार्वती चैव पृथिवी च सरस्वती ॥
शची गौरी शिवा संज्ञा ऋद्धिः स्वाहा च रोहिणी ॥
धूमोर्णा चादितिर्द्धर्मपत्न्यो मूर्तिदयादयः
॥४॥अरुन्धती शाण्डिली च लोपामुद्रा तथैव च ॥
अनसूयादयः साध्व्य ऋपिपत्न्यश्च सर्वशः
॥५॥गङ्गा सरस्वती रेवा यमुना तपती तथा ॥
चन्द्रभागा विपाशा च शतद्रुर्देविका तथा
॥६॥गोदावरी च सरयूः कावेरी कौशिकी तथा ॥
कृष्णा वेणी भीमरथा ताम्रपर्णी महानदी
॥७॥कृतमाला वितस्ता च निर्विन्ध्या सुरसा तथा ॥
चर्मण्वती पयोष्णी च विश्वाद्या नद्य आययुः
॥८॥रम्भा घृताची विश्वाची मेनका च तिलोत्तमा ॥
उर्वशीप्रमुखास्तत्र सर्वाप्सरस आययुः
॥९॥वैकुण्ठवासिनः सर्वे तथा गोलोकवासिनः ॥
पार्षदप्रवरा विष्णोस्तत्राजग्मुः प्रहर्षिताः
॥१०॥अणिमाद्याः सिद्धयोऽष्टौ शंखपद्मादयो नव ॥
निधयो मूर्तिमन्तश्च समाजग्मुः श्रियोन्तिके
॥११॥पूर्णः शारदचन्द्रोपि तदानीं प्रीतये श्रियाः ॥
नैशं तमोऽहरत्सर्वं बभूवुर्निर्मला दिशः
॥१२॥ततोऽभिषेकमारेभे तस्या ब्रह्माज्ञया वृषा ॥
मण्डपं रचयामास सद्यस्त्वष्टातिशोभनम्
॥१३॥रत्नस्तम्भसहस्राणामायताभिश्च पंक्तिभिः ॥
चित्रैरनेकैरुल्लोचैः शोभितं कदलीद्रुमैः
॥१४॥सुगन्धिपुष्पनम्राभिर्दिव्यकल्पद्रुमालिभिः ॥
जुष्टं नानाविधैरङ्गैर्दर्शनीयं मनोहरम्
॥१५॥कोटिशो रत्नदीपानां पंक्तिभिः शुद्धरोचिषाम् ॥
भ्राजमानं तोरणैश्च मुक्ताहारैश्च लम्बिभिः
॥१६॥रत्नसिंहासने तत्र गीतवाद्यपुरस्सरम् ॥
उपावेश्य श्रियं चक्रुरभिषेकं महर्षयः
॥१७॥ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
॥१८॥कुर्वन्तो बृंहितान्येते हेमकुम्भोद्धृतैः शुभैः ॥
चतुःसिन्धुसमानीतैरभ्यषिञ्चन्त वारिभिः
॥१९॥मूर्तिमत्यो महानद्यस्तत्राजहुर्जलानि च ॥
मंत्रानुच्चारयंति स्म मूर्ता वेदाः सहर्षिभिः
॥२०॥जगुः सुकण्ठा गंधर्वा ननृतुश्चाप्सरोगणाः ॥
वाद्यानि वादयामासुरन्ये देवगणास्तदा
॥२१॥महानभूत्तदानंदस्त्रिलोक्यां सर्वदेहिनाम् ॥
श्रीसूक्तादि द्विजाः पेठुर्जगुर्गीतानि च स्त्रियः
॥२२॥कांस्यतालमृदङ्गांश्च पणवानकगोमुखान् ॥
वादयामासुरम्भोदा दिवि दुंदुभयोऽनदन्
॥२३॥आसीत्कुसुमवृष्टिश्च साकं जयरवैस्तदा ॥
आसंस्तत्परिचर्यायां धर्मपत्न्यश्च सिद्धयः
॥२४॥सुस्नातायै ततस्तस्यै कौशेये पीतवाससी ॥
ददावनर्घ्ये जलधी रत्नभूषाश्च भूरिशः
॥२५॥उपवेशोचितं तस्या इंद्र आसनमाहरत् ॥
विश्वकर्मा कङ्कणानि ददौ सद्रत्नमुद्रिकाः
॥२६॥सुधाकरस्तु तद्भ्राता नासाभूषणमुत्तमम् ॥
ददौ तस्यै केशभूषा सद्रत्ननिचिता तथा
॥२७॥पद्मजन्मा ददौ पद्मं मुक्ताहारं सरस्वती ॥
नागाश्च शेषप्रमुखास्तस्यै रत्नेंद्रकुण्डले
॥२८॥अञ्जनं कुङ्कुमं चादाद्दुर्गा सोभाग्यलक्षणम् ॥
ललाटिकां च सावित्री शची ताम्बूलपात्रिकाम्
॥२९॥वसंतः कौसुमान्हारान्कण्ठसूत्रं च शंकरः ॥
वैजयंतीं स्रजं पाशी कुबेरो रत्नदर्पणम्
॥३०॥अनर्घ्यां कंचुकीं वह्निर्यमोऽदाद्व्यजनं शुभम् ॥
ददुस्तस्यै चापरेपि भूषास्तत्समयोचिताः
॥३१॥ततः स्वलंकृतां कन्यां कस्मै दद्यामिमामिति ॥
सिंधुः पप्रच्छ ब्रह्माणं तदोवाच स सर्ववित्
॥३२॥कन्या तवेयमम्भोधे माता मम शिवस्य च ॥
देवानामथ सर्वेषां लोकानामस्ति निश्चितम्
॥३३॥नारायणं वासुदेवं परं ब्रह्माखिलेश्वरम् ॥
पुरुषोत्तममेवैकं विनास्या नापरः पतिः
॥३४॥अतः साक्षाद्भगवते त्रैलोक्यसुखहेतवे ॥
आगतायोपविष्टाय देह्यस्मै विधिनाम्बुधे
॥३५॥कुरुष्व जन्मसाफल्यं पावयित्वा निजं कुलम् ॥
समुद्धर भवाम्भोधेर्दत्त्वेमां परमात्मने
॥३६॥एकस्त्वं सप्तभी रूपैः सप्तद्वीप विभागतः ॥
विश्रुतोऽथ विधायैतन्महतीं कीर्त्तिमाप्स्यसि
॥३७॥इत्युक्तो ब्रह्मणा हृष्टः समुद्रः पुलकाञ्चितः ॥
मन्यमानो निजं धन्यमदित्सद्विष्णवे सुताम्
॥३८॥ततः सहैव विधिना स संप्रार्थ्य तमीश्वरम् ॥
वाग्दानादि विधायैव चक्रे वैवाहिकं विधिम्
॥३९॥धन्वंतरिश्चन्द्रमाश्च वासवाद्याश्च देवताः ॥
आसन्समुद्रस्य पक्षे तत्र वैवाहिकोत्सवे
॥४०॥वस्त्राभरणयानादि दाने भोजनकर्मणि ॥
सन्मानने च जन्यानां मुख्या आसंस्त एव हि
॥४१॥लक्ष्म्याश्च मांगल्यविधौ मुख्यास्तत्र तु योषितः ॥
आसन्गंगादयो नद्यः शच्याद्याश्च सुरांगनाः
॥४२॥मेनाद्या नगपत्न्यश्च सिद्धयश्चाणिमादयः ॥
चन्द्रपत्नी तथा कान्तिः सर्वाश्चाप्सरसो मुने
॥४३॥नारायणस्याथ विभोर्लीलां वैवाहिकीं विधिः ॥
शोभयन्पितरौ चक्रे मूर्तिधर्मौ विचार्य च
॥४४॥धर्मोऽसौ जगदाधार पूज्यश्चाखिलदेहिनाम् ॥
पिताऽस्य भवितुं योग्यो ह्यस्मिंश्च प्रीतिमान्भृशम्
॥४५॥इयं च मूर्त्तिः प्रख्याता सर्वसद्गुणजन्मभूः ॥
दाक्षायणी धर्मपत्नी माता भवितुमर्हति
॥४६॥ततो धर्मस्यापि पक्षे मुख्याः कार्येष्विमेऽभवन् ॥
नन्दीश्वरगणेशाभ्यां सहितः शंकरो मुने
॥४७॥महर्षयो मरीच्याद्याः प्रजेशा नारदो मुनिः ॥
वैनतेयश्च नन्दाद्याः श्रीदामाद्याश्च पार्षदाः
॥४८॥दुर्गा च वेदसूर्वाणी स्त्रीषु मुख्या बभूविरे ॥
ऋषिपत्न्योऽनसूयाद्या धर्मपत्न्यश्च सर्वशः
॥४९॥सह वेदादिभिर्ब्रह्मा त्वासीदुभयपक्षयोः ॥
ब्राह्मणा वैदिका ये च विवाहविधिकोविदाः
॥५०॥अथाब्धिः सर्वसंभाराञ्छ्रिया एव प्रसादतः ॥
सद्यः संपादयामास जनयन्देवविस्मयम्
॥५१॥यद्यत्संकल्पयामास हृदि तत्तदुपाहृतम् ॥
सद्यः स्वांतिक एवैक्षत्ततोभूदतिहर्षितः
॥५२॥मध्ये तु मण्डपस्यासावग्निस्थापनवेदिकाम् ॥
कारयामास विधिवद्ब्राह्मणैर्वेदवेदिभिः
॥५३॥अलंचकार तां वेदिं गन्धपुष्पाक्षतादिभिः ॥
नानाविधैः शुभै रङ्गैः साङ्कुरैः करकैस्तथा
॥५४॥ततो महामङ्गलवाद्यघोषैः समन्त्रकं संस्नपितो मुनीन्द्रैः ॥
अनर्घ्यवासांसि च रत्नभूषा दधार विष्णुर्मुकुटं च दिव्यम्
॥५५॥वादित्रनिध्वाननिनादिताशं नृत्यत्सुरस्त्रीकलगीतशोभनम् ॥
तं मण्डपं सोऽथ सुरैः स्तुवद्भिः सहेत्य हैमे निषसाद पीठे
॥५६॥प्रक्षालयामास तदङ्घ्रिपङ्कजं स्वप्रेष्ठपत्न्या जलधिः सगंगया ॥
भृङ्गारसिक्तोत्तमवारिधारया तदम्बु शीर्ष्णा च दधार सान्वयः
॥५७॥ततः पठन्मंगलमुच्चकैः श्रियं प्रादापयच्चाम्बुधिनाऽच्युताय ॥
प्रज्वाल्य वह्निं विधिना विधाता साकं बृहद्भिर्मुनिभिर्जुहाव
॥५८॥प्रदाय तस्मै तनयां मनोज्ञां तत्पादपद्मैकनिबद्धदृष्टिम् ॥
वासांसि रत्नाभरणानि चादाद्भूयांसि भूम्ने स समं दुहित्रा
॥५९॥हुतस्य तस्याऽथ हुताशनस्य प्रदक्षिणां चापि सह श्रियैव ॥
चकार चेतांसि निजेक्षकाणां स्त्रीणां च पुंसां च हरन्हरिः सः
॥६०॥एकासने तौ सह सन्निविष्टौ ब्रह्माण्डमातापितरौ मनोज्ञौ ॥
संपूजयामासुरनर्घ्यवस्त्रविभूषणैर्देवगणाः सयोषाः
॥६१॥तदा च गीतानि सुमंगलानि श्रियश्च विष्णोर्गुणवर्णनानि ॥
दुर्गादयश्चाऽथ पुलोमजाद्या देव्यो जगुः सस्मितचारुवक्त्राः
॥६२॥द्विधा विभक्तानि सुरांगनानां वृन्दान्युपाविश्य च सम्मुखानि ॥
तद्दम्पतिप्रेक्षणकौतुकानि तथा जगुः प्रेमभरेण तानि
॥६३॥यथा तदाकर्ण्य सुराः समस्ता महर्षयश्चाऽखिलयोषितोपि ॥
स्वांतस्तमैक्षंत सह श्रियेशं स्फुरंतमासन्ननु चित्रवच्च
॥६४॥प्रणम्य भक्त्या च वराक्षतादि समर्प्य ताभ्यां विबुधा मुदैव ॥
पृथक्पृथक्तुष्टुवुरूर्जिताभिर्वाग्भिश्च तौ प्राञ्जलयो विनीताः
॥६५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये लक्ष्मीनारायणविवाहोत्सवनिरूपणं नाम चतुर्दशोऽध्यायः ॥ १४ ॥