मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय ११

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 11

ब्रह्मरुद्रौ महेन्द्रादीन्संधानायाऽसुरैः सह

स्कन्द उवाच

ब्रह्मरुद्रौ महेन्द्रादीन्संधानायाऽसुरैः सह ॥

आज्ञाप्य जग्मतुः स्वंस्वं धाम देवा रसां मुने

॥१॥

समयोचितभाषाविद्वासवो नीतियुक्तिभिः ॥

प्रलोभ्य फलभागेन सन्धिं चक्रेऽसुरैः सह

॥२॥

ततो देवासुरगणा मिलिता वारिधेस्तटे ॥

महौषधीरुपानीय बहुशो निदधुर्द्रुतम्

॥३॥

मन्दराद्रिमुपेत्याऽथ नानौषधिविराजितम् ॥

मूलादुत्पाट्य ते सर्वे नेतुमब्धिं समुद्यताः

॥४॥

एकादशसहस्राणि योजनानां भुवि स्थितम् ॥

नोद्धर्तुमशकंस्ते तं तदानीं तुष्टुवुर्हरिम्

॥५॥

एतद्विदित्वा भगवान्संकर्षणमहीश्वरम् ॥

अजिज्ञपत्तमुद्धर्तुं बद्धमूलं महीधरम्

॥६॥

फूत्कारमात्रेणैकेन स तु सद्यस्तमीश्वरः ॥

बहिश्चिक्षेप तत्स्थानाद्योजनद्वितयान्तरे

॥७॥

अत्याश्चर्यं तदालोक्य हृष्टाः सर्वे सुरासुराः ॥

तदन्तिकमुपाजग्मुर्द्धावन्तश्च कृतारवाः

॥८॥

बलिनो यत्नवन्तोपि परिघोपमबाहवः ॥

उद्धृत्य नेतुं नो शेकुर्विषण्णा विफलश्रमाः

॥९॥

ज्ञात्वा सुरगणान्खिन्नान्भगवान्सर्वदर्शनः ॥

तार्क्ष्यमाज्ञापयामास नेतुं तमुदधिं द्रुतम्

॥१०॥

सहावरणमप्यण्डं लीलया धर्त्तुमीश्वरः ॥

मनोवेगः स तत्रेत्य निजत्रोट्यैव तं गिरिम् ॥

उत्पाट्य सागरतटे निधाय हरिमाययौ

॥११॥

ततः संहृष्टमनसः सर्वे कश्यपनन्दनाः ॥

वासुकिं चाह्वयामासुः सुधाभागप्रतिज्ञया

॥१२॥

स तत्रागादथो सर्वे तेऽब्धिं मन्थितुमुद्यताः ॥

तानपान्निधिरागत्य मूर्त्तिमानब्रवीद्वचः

॥१३॥

यदि दास्यथ मे यूयममृतांशं सुरासुराः ॥

सोढास्मि विपुलं तर्हि मन्दरभ्रमणार्द्दनम्

॥१४॥

तथेति ते प्रतिज्ञाय क्षिप्त्वादावोषधीलताः ॥

परिविव्युर्न्नागराजं तस्मिन्काञ्चनपर्वते

॥१५॥

ततो देवा हृदि हरिं सस्मरुः कार्यसिद्धये ॥

स्मृतमात्रः स तत्राऽगादच्युतः सर्वदर्शनः

॥१६॥

तमालोक्यामरगणा मुदिताः फणिनां पतेः ॥

पुरोभागं गृहीत्वैव तस्थुस्तेनानुमोदिताः

॥१७॥

देवतापक्षपातित्वं सूचयन्स्वस्य च प्रभुः ॥

यत्र देवास्तत्र तस्थौ ततो दैत्यास्तु चुक्रुधुः

॥१८॥

तपोविद्यावयोज्येष्ठा अधोभागममङ्गलम् ॥

कथं तिरश्चो गृह्णीमो नेदृङ्मूर्खा वयं त्विति

॥१९॥

सह देवैस्ततो विष्णुः स्वयं तान्मानयन्निव ॥

प्रहस्य दत्त्वा प्राग्भागं सुरान्पुच्छमजिग्रहत्

॥२०॥

महाहिविषफूत्कारदाहादमररक्षणम् ॥

चरित्रमेतच्छ्रीभर्तुरिति दैत्या न ते विदुः

॥२१॥

तत उत्तोलयामासुः स्वर्णसान्वालिभास्वरम् ॥

मन्दरं काश्यपेयास्ते चर्मिकाबद्धकच्छकाः

॥२२॥

द्वाविंशतिसहस्राणि योजनानां तमुच्छ्रितम् ॥

अम्भोनिधौ निदधिरे क्रोशन्तोत्यर्थमुत्सुकाः

॥२३॥

धार्यमाणोप्यनाधारस्तैरद्रिरतिगौरवात् ॥

ययावधस्तलं सद्यस्तदासंस्तेऽतिविह्वलाः

॥२४॥

तदा स भगवान्साक्षात्सर्वथा भक्तकार्यकृत् ॥

स्तूयमानोमरैरद्रिमुद्दघ्रे कमठाकृतिः

॥२५॥

उत्थितं तमवेक्ष्याशु सर्वे फुल्लहृदाननाः ॥

बभूवुश्च स्थिरः सोऽभूत्कूर्मपृष्ठेतिविस्तृते

॥२६॥

ततो ममन्थुस्तरसा यावद्बलमपांनिधिम् ॥

श्रमफूत्कारवदना देवादयोऽदयम्

॥२७॥

भ्राम्यमाणात्ततस्त्वद्रेर्बहवोन्यपतन्दुमाः ॥

ऊर्द्ध्वद्रुघर्षजो वह्निस्तत्स्थ सिंहादिमादहत्

॥२८॥

तत्र नाना जलचरा विनिपिष्टा महाद्रिणा ॥

विलयं समुपाजग्मुः शतशः क्षीरवारिधौ

॥२९॥

सांवर्त्तकमहामेघसङ्घगर्ज्जितवन्महान् ॥

आसीन्मंथननादश्च प्रतिध्वनिविवर्द्धितः

॥३०॥

अत्याकर्षणखिन्नाङ्गवासुकर्म्मुखकृत्कृतैः ॥

हतौजसोऽतिखिन्नाश्च दैत्या निङ्गालवद्बभुः

॥३१॥

अविषह्यं विषाग्निं च मर्षन्ति बहुधा मुहुः ॥

लम्बन्ते स्माहिराजस्य सहस्रं वदनान्यधः

॥३२॥

दधार सहसा तानि भगवन्प्रेरितो विभुः ॥

संकर्षणो महातेजाः सहमानो विषानलम्

॥३३॥

सहस्रमेकं वर्षाणां मथ्यमानात्पयोनिधेः ॥

हालाहलं विषमभूदुत्सर्पद्विदिशो दिशः

॥३४॥

यदाहुः कालकूटाख्यं सर्वलोकातिदाहकम् ॥

तेन दन्दह्यमानाङ्गास्ते तु चक्रुः पलायनम्

॥३५॥

ततो ब्रह्मा प्रजेशाश्च देवाः सर्वेप्युमापतिम् ॥

प्रार्थयंस्तस्य पानार्थं स्तुवन्तः स्तुतिभिर्मुने

॥३६॥

भगवानथ तं प्राह सुराणामग्रजो भवान् ॥

भवतीत्यग्रजं वार्द्धेर्गृहाणेदं विषं शिव

॥३७॥

देवानां स भयं दृष्ट्वा करुणश्चाज्ञया हरेः ॥

आकर्षद्योगकलया विषं पाणितलेऽखिलम्

॥३८॥

पपौ तत्कण्ठमध्ये च शोषयामास तत्क्षणम् ॥

नीलकण्ठ इति ख्यातः शंकराख्यश्च पऽभवत्

॥३९॥

पास्यतस्तस्य पाणेर्ये पतिता भुविबिन्दवः ॥

तान्नागा वृश्चिकाद्याश्च जगृहुः काश्चनौषधीः

॥४०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽमृतमन्थने विषोत्पत्तिर्नामैकादशोऽध्यायः ॥ ११ ॥