ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा
श्रीनारायण उवाच
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥
एत आश्रमिणः प्रोक्ताश्चत्वारो मुनिसत्तम
॥१॥संस्कारैः संस्कृतो यस्तु शुद्धयोनिर्द्विजातिताम् ॥
प्राप्तः स हि ब्रह्मचारी तद्धर्मानादितो ब्रुवे
॥२॥वर्णी वेदमधीयीत वसन्गुरुगृहे शुचिः ॥
जितेन्द्रियो जितक्रोधो विनीतस्तथ्यभाषणः
॥३॥सायं प्रातश्चरेद्धोमं भिक्षाचर्यां च संयतः ॥
कुर्यात्त्रिकालं संध्यां च विष्णुपूजां तथान्वहम्
॥४॥गुर्वाज्ञयैव भुञ्जीत मितमन्नमनाकुलः ॥
गुरुसेवापरो नित्यं भवेद्व्यसनवर्जितः
॥५॥स्नाने च भोजने होमे जपे मौनमुपाश्रयेत् ॥
छिन्द्यान्न नखरोमाणि दन्तान्नैवातिधावयेत्
॥६॥नातिधावेच्च वासांसि भवेन्निष्कपटो गुरौ ॥
आहूतोध्ययनं कुर्यादादावन्ते च तं नमेत्
॥७॥अस्पृश्यान्न स्पृशेच्चासौ नाऽसंभाष्यांश्च भाषयेत् ॥
अभक्ष्यं भक्षयेन्नैव नाऽपेयं च पिबेत्क्वचित्
॥८॥मेखलामजिनं दण्डं बिभृयाच्च कमण्डलुम् ॥
सिते द्वे वाससी ब्रह्मसूत्रं च जपमालिकाम्
॥९॥दर्भपाणिश्च जटिलः केशसंस्कारवर्जितः ॥
अङ्गरागं पुष्पहारान्भूषणानि च वर्जयेत्
॥१०॥तैलाभ्यङ्गं न कुर्वीत कज्जले नाञ्जनं तथा ॥
वर्जयेच्च प्रयत्नेन संसर्गं मद्यमांसयोः
॥११॥स्त्रीणां निरीक्षणं स्पर्शं भाषणं क्रीडनादि च ॥
वर्जयेत्सर्वथा वर्णी स्त्रियाश्चाप्यवलेखनम्
॥१२॥विना च देवप्रतिमां काष्ठचित्रादियोषितम् ॥
अपि नैव स्पृशेद्धीमान्न च बुद्ध्यावलोकयेत्
॥१३॥प्राणिमात्रं च मिथुनीभूतं नेक्षेत कर्हिचित् ॥
स्त्रीणां गुणाश्चाप्यगुणाञ्छृणुयान्नैव नो वदेत्
॥१४॥अस्पृशन्नेव वन्देत गुरुपत्नीमपि स्वकाम् ॥
जनन्यापि न तिष्ठेत रहःस्थाने तु कर्हिचित्
॥१५॥एवंवृत्तो वसेत्तत्र यावद्विद्यासमापनम् ॥
ततो विरक्तो न्यासी स्याद्वर्णी वा नैष्ठिको भवेत् ॥
अनधिकारिता प्रोक्ता नैष्ठिकव्रतिनां कलौ
॥१६॥न संधाविति विज्ञेयं कलीति शब्दसंग्रहात् ॥
वनी स्यादथ वा ब्रह्मन्नविरक्तो भवेद्गृही
॥१७॥प्राजापत्यं च सावित्रं ब्राह्मं नैष्ठिकमेव च ॥
चतुर्विधं ब्रह्मचर्यं तत्रैकं शक्तितः श्रयेत्
॥१८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ब्रह्मचारिधर्मनिरूपणं नामैकविंशोऽध्यायः ॥ २१ ॥