ज्ञानस्वरूपनिरूपणम्
श्रीनारायण उवाच
अथ ज्ञानस्वरूपं ते वच्मि सांख्येन निश्चितम् ॥
क्षेत्रादि ज्ञायते येन तज्ज्ञानं हि निरुच्यते
॥१॥वासुदेवः परं ब्रह्म बृहत्यक्षरधामनि ॥
आदावेकोऽद्वितीयोऽभून्निर्गुणो दिव्यविग्रहः
॥२॥स कार्यमूलप्रकृतिः सकालाऽक्षरतेजसि ॥
प्रकाशेऽर्कस्य रात्रीव तिरोभूता तदाऽभवत्
॥३॥सिसृक्षाथाभवत्तस्य ब्रह्माण्डानां यदा तदा ॥
सकालाविर्बभूवादौ महामाया ततो हि सा
॥४॥तां कालशक्तिमादाय वासुदेवोऽक्षरात्मना ॥
सिसृक्षयैक्षत यदा सा चुक्षोभ तदैव हि
॥५॥तस्याः प्रधानपुरुषकोटयो जज्ञिरे मुने ॥
युज्यन्ते स्म प्रधानैस्ते पुरुषाश्चेच्छया प्रभोः
॥६॥पुमांसो निदधुर्गर्भांस्तेषु तेभ्यश्च जज्ञिरे ॥
ब्रह्माण्डानि ह्यसङ्ख्यानि तत्रैकं तु विविच्यते
॥७॥आदौ जज्ञे महांस्तस्मात्पुंसो वीर्याद्धिरण्मयात् ॥
अहङ्कारस्ततस्तस्माद्गुणाः सत्त्वादयस्त्रयः
॥८॥तमसः पञ्च तन्मात्रा महाभूतानि जज्ञिरे ॥
दशेन्द्रियाणि रजसो बुद्ध्या सह महानसुः
॥९॥सत्त्वादिन्द्रियदेवाश्च जायन्ते स्म मनस्तथा ॥
सामान्यतस्तत्त्वसंज्ञा एते देवाः प्रकीर्त्तिताः
॥१०॥प्रेरिता वासुदेवेन स्वस्वांशैरैश्वरं वपुः ॥
अजीजनन्विराट्सञ्ज्ञं ते चराचरसंश्रयम्
॥११॥स च वैराजपुरुषः स्वसृष्टास्वप्स्वशेत यत् ॥
तेन नारायण इति प्रोच्यते निगमादिभिः
॥१२॥तन्नाभिपद्माद्ब्रह्मासीद्राजसोऽथ हृदम्बुजात् ॥
जज्ञे विष्णुः सत्त्वगुणो ललाटात्तामसो हरः
॥१३॥एतेभ्य एव स्थानेभ्यस्तिस्र आसंश्च शक्तयः ॥
तत्रासीत्तामसी दुर्गा सावित्री राजसी तथा ॥
सात्त्विकी श्रीश्चेति सर्वा वस्त्रालंकारशोभिताः
॥१४॥ता वैराजाज्ञया त्रींश्च ब्रह्मादीन्प्रतिपेदिरे ॥
दुर्गा रुद्रं च सावित्री ब्रह्माणं विष्णुमन्तिमा
॥१५॥चण्डिकाद्याश्च दुर्गाया अंशेनासन्सहस्रशः ॥
त्रयीमुख्याश्च सावित्र्याः शक्तयोंशेन जज्ञिरे ॥
दुस्सहाप्रमुखाश्चासन्नंशेनैव श्रियो मुने
॥१६॥तत्रादितो यो ब्रह्मासीद्वैराजनाभिपद्मतः ॥
एकार्णवे तदब्जस्थः स कश्चिदपि नैक्षत
॥१७॥विसर्गबुद्धिमप्राप्तो नात्मानं च विवेद सः ॥
कोहं कुत इति ध्यायन्नदिदृक्षत्कजाश्रयम्
॥१८॥नालं प्रविश्याऽधो यातुस्तन्मूलं च विचिन्वतः ॥
संवत्सरशतं यातं तस्य नान्तं तु सोलभत्
॥१९॥ऊर्ध्वं पुनरुपेत्याऽथ श्रान्तश्च निषसाद सः ॥
अदृश्यमूर्तिर्भगवानूचे तपतपेति तम्
॥२०॥तच्छ्रुत्वा तत्प्रवक्तारमदृष्ट्वा च स सर्वतः ॥
गुरूपदिष्टवत्तेपे दिव्यं वर्षसहस्रकम्
॥२१॥पद्मे तपस्यते तस्मै तपः शुद्धात्मने ततः ॥
समाधौ दर्शयामास धाम वैकुण्ठमच्युतः
॥२२॥प्राधानिका गुणा यत्र त्रयोपि रजआदयः ॥
न भवन्त्यल्पमपि यत्कालमायाभयं न च
॥२३॥सहोदितार्कायुतवद्भास्वरे तत्र तेजसि ॥
वासुदेवं ददर्शाऽसौ रम्यदिव्यासिताकृतिम्
॥२४॥चतुर्भुजं गदापद्मशंखचक्रधरं विभुम् ॥
पीताम्बरं महारत्नकिरीटादिविभूषणम्
॥२५॥नन्दतार्क्ष्यादिभिर्ज्जुष्टं पार्षदैश्च चतुर्भुजैः ॥
सिद्धिभिश्चाष्टभिः षड्भिर्बद्धाञ्जलिपुटैर्भगैः
॥२६॥सिंहासने श्रिया साकमुपविष्टं तमीश्वरम् ॥
प्रणम्य प्राञ्जलिस्तस्थौ विरिञ्चो हृष्टमानसः
॥२७॥तं प्राह भगवान्ब्रह्मंस्तुष्टोहं तपसा तव ॥
वरं वरय मत्तस्त्वं स्वाभीष्टं यत्प्रियोसि मे
॥२८॥इत्युक्तस्तेन तं जानंस्तपसि प्रेरकं प्रभुम् ॥
स्वं च विश्वसृजं ब्रह्मा ययाचेऽभिमतं वरम्
॥२९॥प्रजाविसर्गशक्तिं मे देहि तुभ्यं नमः प्रभो ॥
तत्रापि च न बद्ध्येयं यथा कुरु तथा कृपाम्
॥३०॥ततस्तं भगवानूचे सेत्स्यते ते मनोरथः ॥
वैराजेन मयात्मैक्यं भावयित्वा समाधिना ॥
प्रजाः सृजाऽथ स्वासाध्ये कार्ये स्मर्योहमिष्टदः
॥३१॥इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्माप्येकसमाधिना ॥
वैराजेनाऽथ लोकान्प्राग्लीनान्सर्वान्स्व ऐक्षत
॥३२॥विसर्गशक्तिं संप्राप्य स सर्गाय मनो दधे ॥
ब्रह्मज्योतिर्मयस्तावदादित्यः प्रादुरास ह
॥३३॥स्थापयित्वाण्डमध्ये तं ततः स मनसाऽसृजत् ॥
तपोभक्तिविशुद्धेन मुनीनाद्यांश्चतुःसनान्
॥३४॥प्रजाः सृजत चेत्यूचे तांस्तदा ते तु तद्वचः ॥
न जगृहुर्न्नैष्ठिकेन्द्रास्तेभ्यश्चुक्रोध विश्वसृट्
॥३५॥क्रुद्धस्य तस्य भालाच्च रुद्र आसीत्तमोमयः ॥
मन्युं नियम्य मनसा प्रजेशान्सोऽसृजत्ततः
॥३६॥मरीचिमत्रिं पुलहं पुलस्त्यं च भृगुं क्रतुम् ॥
वसिष्ठं कर्दमं चैव दक्षमंगिरसं तथा
॥३७॥धर्मं ततः स हृदयादधर्मं पृष्ठतस्तथा ॥
मनसः काममास्याच्च वाणीं क्रोधं भ्रुवोऽसृजत्
॥३८॥शौचं तपो दया सत्यमिति धर्मपदानि च ॥
चतुर्भ्यो वदनेभ्यश्च चत्वारि ससृजे ततः
॥३९॥ऋग्वेदं वदनात्पूर्वाद्यजुर्वेदं च दक्षिणात् ॥
ससर्ज पश्चिमात्साम सौम्याच्चाथर्वसंज्ञितम्
॥४०॥इतिहासपुराणानि यज्ञान्विप्रशतं तथा ॥
वस्वादित्यमरुद्विश्वान्साध्यांश्च मुखतोऽसृजत्
॥४१॥बाहुभ्यः क्षत्रियशतमूरुभ्यां च विशां शतम् ॥
पद्भ्यां शूद्रशतं चैतान्ससर्ज सह वृत्तिभिः
॥४२॥ब्रह्मचर्यं च हृदयाद्गार्हस्थ्यं जघनस्थलात् ॥
वनाश्रमं तथोरस्तः संन्यासं शिरसोऽसृजत्
॥४३॥वक्षःस्थलात्पितृगणानसुराञ्जघनस्थलात् ॥
ससर्ज च गुदान्मृत्युं निर्ऋतिं निरयांश्च सः
॥४४॥गन्धर्वांश्चारणान्सिद्धान्सर्पान्यक्षांश्च राक्षसान् ॥
नगान्मेघान्विद्युतश्च समुद्रान्सरितस्तथा
॥४५॥वृक्षान्पशून्पक्षिणश्च सर्वान्स्थावरजङ्गमान् ॥
स्वाङ्गेभ्य एव सोस्राक्षीद्ब्रह्मा नारायणात्मकः
॥४६॥सृष्टिमेतां विलोक्यापि नातिप्रीतो यदा तदा ॥
हरिं ध्यात्वा स ससृजे तपोविद्यासमाधिभिः ॥
ऋषीन्स्वायम्भुवादींश्च मनूंश्च मनुजानपि
॥४७॥ततः प्रीतः स सर्वेषां निवासाय यथोचितम् ॥
स्वर्लोकं च भुवर्लोकं भूर्लोकं समकल्पयत्
॥४८॥येषां तु यादृशं कर्म प्राक्कालीनं हि तान्विधिः ॥
संस्थाप्य तादृशे स्थाने वृत्तीस्तेषामकल्पयत्
॥४९॥देवानाममृतं नॄणामृषीणां चान्नमोषधीः ॥
यक्षरक्षोसुरव्याघ्रसर्पादीनां सुरामिषम् ॥
चक्लृपे गोमृगादीनां वृत्तिं स यवसादि च
॥५०॥स देवानां तु विश्वेषां हव्यं वृत्तिमकल्पयत् ॥
अमूर्तानां च मूर्तानां पितॄणां कव्यमेव च
॥५१॥दुर्गोद्भवानां शक्तीनां तदुपासनतत्परैः ॥
दैत्यरक्षःपिशाचाद्यैर्दत्तं मद्यामिषादि च
॥५२॥तथा सावित्र्युद्भवानां शक्तीनां तदुपासकैः ॥
दत्तमृष्यादिभिर्यज्ञे मुन्यन्नं चान्नमोषधीः
॥५३॥श्रीजातानां च शक्तीनां तदुपास्तिपरायणैः ॥
दत्तं देवासुरनरैः पायसाज्यसितादि च
॥५४॥प्रजापतीनां स पतिस्ततः प्राहाऽखिलाः प्रजाः ॥
इज्या देवाश्च पितरो हव्यकव्यात्मकैर्मखैः
॥५५॥इष्टाः संपूरयिष्यन्ति ह्येते युष्मन्मनोरथान् ॥
एतान्ये नार्चयिष्यन्ति ते वै निरयगामिनः
॥५६॥इत्थं कृता हि मर्यादा तेन नारायणात्मना ॥
दैवं पित्र्यमतो नित्यं जनैः कार्यं यथाविधि
॥५७॥ततो ब्रह्मा स सर्वेषां धर्मसेत्ववनाय च ॥
तत्तज्जातिषु ये मुख्यास्तान्मनूंश्चाप्यतिष्ठिपत्
॥५८॥वासुदेवेच्छयैवेत्थं वैराजाद्ब्रह्मरूपिणः ॥
कल्पेकल्पे भवत्येव सृष्टिर्बहुविधा मुने
॥५९॥प्राक्कल्पे यादृशी संज्ञा वेदाः शास्त्राणि च क्रियाः ॥
कल्पेऽन्ये तादृशाः सर्वे धर्माः स्युश्चाऽधिकारिणः
॥६०॥विष्णुर्यः कथितः सोपि वैराजपुरुषात्मकः ॥
पोषयत्यखिलाँल्लोकान्मर्यादाः परिपालयन्
॥६१॥मन्वादिभिः पाल्यमानाः सेतवस्त्वसुरैर्यदा ॥
कामरूपैर्विभिद्यन्ते वासुदेवस्तदा स्वयम् ॥
ब्रह्मादिभिः प्रार्थ्यमानः प्रादुर्भवति भूतले
॥६२॥अवतारा भगवतो भूता भाव्याश्च सन्ति ये ॥
कर्तुं न शक्यते तेषां संख्यां संख्याविशारदैः
॥६३॥सद्धर्मदेवसाधूनां गुप्त्यै तद्द्रोहिमृत्यवे ॥
श्रेयसे सर्वभूतानामाविर्भावोस्ति सत्पतेः
॥६४॥स वासुदेवः प्रकृतौ पुंसि कार्येषु चैतयोः ॥
अन्वितश्च पृथक्चास्ते सर्वाधीशः स्वधामनि
॥६५॥व्याप्य स्वांशैरिमाँल्लोकान्यथाग्निवरुणादयः ॥
स्वस्त्यासते स्वस्वलोके तथैष भगवान्मुने
॥६६॥सर्गात्प्राक्सच्चिदानन्दः शुद्ध एकश्च निर्गुणः ॥
यथासीत्तादृगेवासावन्वितोप्यस्ति निर्मलः
॥६७॥वायुतेजोजलक्ष्मासु तत्तत्कार्येषु खं यथा ॥
अन्वीयाप्यस्ति निर्लेपं यथा पूर्वं तथैष हि
॥६८॥सर्वोपास्यो नियन्ता च व्यापकश्चैष कीर्तितः ॥
आत्यन्तिके लयेऽथैष भवत्येव यथा पुरा
॥६९॥वैराजः पुरुषो योऽत्र प्रोक्तोऽसावीश्वराभिधः ॥
ज्ञेयः स्वतन्त्रः सर्वज्ञो वश्यमायश्च नारद
॥७०॥एतस्यैव स्वरूपाणि ब्रह्मविष्णुशिवास्त्रयः ॥
रजआदिगुणोपेताः स्वगुणानुगुणक्रियाः
॥७१॥ब्रह्मणो ये समुत्पन्ना देवासुरनरादयः ॥
ते जीवसंज्ञा ह्यल्पज्ञाः परतन्त्रा भवन्ति च
॥७२॥जीवानामीश्वराणां च तनवः क्षेत्रसञ्ज्ञकाः ॥
महदादितत्त्वमय्यः क्षेत्रज्ञाख्यास्तु तद्विदः
॥७३॥क्षेत्राणां च क्षेत्रविदां प्रधानपुरुषस्य च ॥
मायायाः कालशक्तेश्चाऽक्षरस्य च परात्मनः ॥
पृथक्पृथग्लक्षणैर्यज्ज्ञानं तज्ज्ञानमुच्यते
॥७४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ज्ञानस्वरूपनिरूपणं नाम चतुर्विशोऽध्यायः ॥ २४ ॥