मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १५

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 15

लक्ष्मीनारायणस्तुतिनिरूपणम्

ब्रह्मोवाच

विचार्य्याऽहं वेदान्मुहुरुपगतो निश्चयमिमं रमारामे भक्तिस्त्वयि दृढतरा यर्ह्यसुभृताम् ॥

भवेत्तर्ह्येवैषां क्षयविरहिता भोगनिकरास्तथा स्युर्लोका वै परमपुरुषात्यंतिकगतिः

॥१॥

अजानन्तस्त्वित्थं भृतरजतमस्कानपि हरे भजन्त्यस्मान्देवान्बहुविधतपोर्च्चासरणिभिः ॥

त एवोक्ता मूढाः क्षयरहितसौख्यं न कुहचिल्लभन्तेऽतस्त्वां वै निजहृदि दधे केशवमहम्

॥२॥

शंकर उवाच

त्रयी सांख्यवेदांतयोगाः पुराणं तथा पञ्चरात्रं प्रभो धर्मशास्त्रम् ॥

तवैवातिमाहात्म्यमेकस्य नित्यं प्रकारैरनेकैर्हि गायंति भक्त्या

॥३॥

त्वदेवेश शास्त्राणि चैतानि भूम्नो बभूवुस्त्वदेकाश्रयाण्यादिकल्पे ॥

रमासेव्यपादाम्बुजं शास्त्रयोनिं तमाद्यं भवन्तं भजे वासुदेवम्

॥४॥

धर्म उवाच

कथा त्वदीया भवपाशमोचनी सुधैव तापत्रयतप्तदेहिनाम् ॥

अनेकजन्माघचयापहारिणी तनोति भक्तिं वयुनं तवाञ्जसा

॥५॥

सदैव सा कर्णपथेन हृद्दरी विशत्वनन्ताभिध सम्मुखोद्गता ॥

मम त्वदन्या हरताच्च वासना दयाब्धये ते प्रभविष्णवे नमः

॥६॥

प्रजापतय ऊचुः

धन्या एते कल्पवृक्षा यदीयां छायामेतामाश्रितस्त्वं सहश्रीः ॥

धन्यः कर्ता मण्डपस्यास्य ते वै धन्यैषा भूर्यत्र पीठं तवेश

॥७॥

धन्यो लोके नूनमेषोम्बुराशिः साक्षात्तुभ्यं येन दत्ता स्वकन्या ॥

धन्याश्चैते त्वां वयं वीक्षमाणा धन्येशानं श्रीपतिं त्वां नताः स्मः

॥८॥

मनव ऊचुः

धर्मः खलु स हि परमो धर्मेभ्यो माधव सकलेभ्योपि ॥

भक्तिर्भवति यतो वै धर्मभुवि त्वयि हि निरवद्या

॥९॥

धर्मात्मानं भगवन्धर्मधुरीणं च धर्मपातारम् ॥

सर्वातिप्रियधर्मं नुमस्त्वां धर्मसंभूतिम्

॥१०॥

ऋषय ऊचुः

भक्त्या हीनस्त्वद्विमुखो वयुनार्थी श्राम्यन्भूयोप्यस्य न सिद्धिं समुपैति ॥

तर्ह्यासक्तः कर्मणि काम्ये तु कुतोसौ सौख्यं यायादक्षयमानन्दमहाब्धे

॥११॥

भक्त्या नित्यं त्वामत एव वयं वै श्रद्धायुक्ता धर्मतपोनिगमाद्यैः ॥

मायातीतं कालनियन्तारमुदारं ध्यायामः श्रीकान्तपरात्परमेकम्

॥१२॥

इन्द्र उवाच

भगवन्नुरुदुःखिता वयं ननु दुर्वासस एव हेलनात् ॥

न भवन्तमृतेऽवितुं हि नो विधिरुद्रप्रमुखा इमेऽशकन्

॥१३॥

विगताखिलसंपदो निरन्नाः समभावं भुवि पामरैरुपेताः ॥

भवतैव वयं हृतापदः स्मः सपदि श्रीहरये नमोस्तु तुभ्यम्

॥१४॥

अग्निरुवाच

गीर्वाणदानवनराद्युपजीवनान्नं यन्निर्मितं हि भवतैव ततो बुधास्तु ॥

यज्ञेषु तेन यजनं तव कुर्वतेऽथो त्वच्छेषमन्यदिविषद्भ्य उपानयन्ति

॥१५॥

काम्येषु कर्मसु रता अपि याज्ञिकास्ते तत्कर्मबन्धनत आशु विमुच्य यान्ति ॥

ब्राह्मीं गतिं तदितरे तु भवन्ति चौराः श्रीयज्ञपूरुषमहं प्रणमामि तं त्वाम्

॥१६॥

मरुत ऊचुः

भक्ता एकान्तिकास्तेऽक्षरपरमपदे सेवया ते तु हीनं वासैश्वर्यादि नेच्छन्त्यतिशयितसुखं नापि कैवल्यमोक्षम् ॥

तद्युक्तं त्वात्मनोपि श्वपचकुलजनुर्मानयन्त्युत्तमं वै तं त्वामेकान्तधर्माश्रयणमुपगताः श्रीमहापूरुषं स्मः

॥१७॥

सिद्धा ऊचुः

नैकब्रह्माण्डसर्गादिकारणं त्वामकारणम् ॥

तत्स्थं तद्व्यतिरिक्तं च नियन्तारं नमामहे

॥१८॥

रुद्रा ऊचुः

मायायाः सर्वमोहिन्या मोहनं मोहवर्जितम् ॥

महाकालस्यापि कालं त्वां नमः पुरुषोत्तमम्

॥१९॥

आदित्या ऊचुः

प्रकाशिता येन वयं जगन्ति प्रकाशयामो भवता रमेश ॥

स्वयंप्रकाशं तमुरुप्रकाशं प्रकाशमूर्त्तिं प्रणता भवन्तम्

॥२०॥

साध्या ऊचुः

शास्ता नृपाणां च महोरगाणां दैत्याधिपानां च सुराधिपानाम् ॥

त्वं वै मनूनां च प्रजापतीनां राजाधिराजाय नमोस्तु तुभ्यम्

॥२१॥

वसव ऊचुः

भवति भुवि यदायदाऽसुरांशैः प्रथितसनातनधर्मधार्मिकाणाम् ॥

कदनमुरु तदातदा स्वयं ते ह्यवतरते प्रणमाम धर्मगोप्त्रे

॥२२॥

चारणा ऊचुः

चरित्रं शुभं ते धृतानेकमूर्त्तेः प्रबन्धैरनेकैर्हि गायन्ति भक्ताः ॥

यदु श्रोतृवक्तॄन्पुनात्येव सद्यो वयं तं नताः पुण्यकीर्त्तिं भवन्तम्

॥२३॥

गन्धर्वाप्सरस ऊचुः

ये कथास्ते विहायान्यगाथाः प्रभो कीर्त्तयन्तेऽथ शृण्वन्ति वा ते जनाः ॥

दुःखिताः स्युश्च संसारपाशैः सितास्तं नताः स्मः शरण्यं भवन्तं वयम्

॥२४॥

समुद्र उवाच

अजित तवाऽथ तावकजनस्य मुदाऽल्पमपि द्रविण जलान्नवस्त्रनमनान्यतमेन सकृत् ॥

चरति ह सेवनं स पदवीं महतीं महतां व्रजति जनोल्पकोपि तमहं प्रणतः करुणम्

॥२५॥

पार्षदा ऊचुः

पितरो त्वमसि स्वजनस्त्वमसि त्वमसीष्टगुरुः सुहृदात्मपतिः ॥

त्वमसीश्वर एव च नः परमस्त्वमसि द्रविणं सकलं त्वमसि

॥२६॥

मूर्त्तिरुवाच

यत्संबन्धत एव यान्ति पदवीमुच्चां महद्भिर्न्नुतां स्त्रीशूद्रासुरनीचपक्षिपशवः पापात्मजीवा अपि ॥

यद्धीना विबुधेश्वरा अपि भवन्त्यर्च्चोज्झितास्तत्क्षणं गोलोकाधिपतिं तमेव हृदये नित्यं भजे त्वामहम्

॥२७॥

सावित्र्युवाच

त्वं सर्गकाले प्रकृतिं च पूरुषं दृष्ट्या स्वयोत्थाप्य ततस्तदात्मना ॥

तत्त्वानि सृष्ट्वा महदादिमानितैर्न्नैकान्विराजो बहुधा ससर्जिथ

॥२८॥

वैराजरूपेण जगद्विधातृतां स्वीकृत्य देवासुरमानुषोरगान् ॥

त्वं स्थावरं जंगममीश निर्ममे त्वामादिकर्तारमुपाश्रितास्म्यहम्

॥२९॥

दुर्गोवाच

प्रियतयाऽधिकया हृदि चिन्तनं विदधते तव ये भुवि ते विभो ॥

न परमेष्ठिसुखं न दिवः सुखं न कमयन्ति धरैकनरेशताम्

॥३०॥

प्रसभमर्पितमप्यतुलं त्वया सुखमिदं समवाप्य च तत्र ते ॥

तदपहाय न शक्तिकृतः क्षणं तमु नमामि च सात्वतनायकम्

॥३१॥

नद्य ऊचुः

वरद नमनमात्रं नामसंकीर्तनं वा विदधति तव ये वै ज्ञानतोऽज्ञानतो वा ॥

जनिमृतियमभीतेस्तानपि त्रायमाणं नरसखमुपयाताः स्मोऽद्य नारायणं त्वाम्

॥३२॥

देवपत्न्य ऊचुः

भुवि धृताकृतेर्जन्म मङ्गलं चरितमद्भुतं लोकपावनम् ॥

भवति निर्गुणं सर्वमेव ते भवसि निर्गुणब्रह्म यत्परम्

॥३३॥

तव समाश्रयात्तामसा जना अपि च राजसाः सात्त्विकाश्च ये ॥

ननु भवन्ति ते निर्गुणास्ततो वयमुपास्महे त्वां हि निर्गुणम्

॥३४॥

ऋषिपत्न्य ऊचुः

आर्तानामुरुवृजिनैस्त्रिधा च तापैः सर्वापत्प्रशमनमेकमेव विष्णोः ॥

पादाब्जं तव भवतीति तद्वयं वै प्राप्ताः स्मः शरणमनन्त देवदेव

॥३५॥

पृथिव्युवाच

पूर्णशारदसुधाकराननं शारदाब्जदलदीर्घलोचनम् ॥

श्रीवियोगबहुधार्तिमोचनं वाऽसुदेवमहमेकमाश्रये

॥३६॥

सरस्वत्युवाच

नयने ममाच्युत तवातिसुन्दरे मुखशीतरोचिषि चकोरतां गते ॥

न हि गच्छतोऽन्यत इतीयमेव मे हृदि मूर्तिरस्तु सततं नहीतरा

॥३७॥

स्कन्द उवाच

इति स्तुतोऽखिलैर्देवैः सोभिनन्द्य दृशैव तान् ॥

प्राह श्रियं शुभे पश्य देवादींस्त्वमिमानिति

॥३८॥

ततः समीक्षिताः प्रीत्या तया मधुरया दृशा ॥

त्रिलोकीवासिनः सर्वे ऋद्धा आसन्यथा पुरा

॥३९॥

लेभिरे स्वस्वऋद्धिं ते गृहिणस्त्यागिनोपि च ॥

धर्मादयश्च सानन्दं प्रचरन्ति स्म पूर्ववत्

॥४०॥

तस्याः श्रियश्च भगवान्ददौ स्थानमुरः स्वकम् ॥

तत्र स्थित्वैव सा व्यापत्त्रैलोक्यं संपदात्मना

॥४१॥

ततो रत्नाकरः स्वस्माच्छ्रीजनेरनुभावतः ॥

बभूवान्वर्थसंज्ञो वै संपूर्णक्षयरत्नवान्

॥४२॥

चतुर्विधैर्बहुरसैः सदन्नैरमृतोपमैः ॥

सर्वान्समागतांस्तत्र तर्पयामास सादरम्

॥४३॥

अनर्घ्याणि च वस्त्राणि रत्नभूषाः परिच्छदान् ॥

देवादिभ्यो ददौ प्रीत्या सर्वेभ्योपि पृथक्पृथक्

॥४४॥

जामातुस्तुष्टये स्वस्य तदीयेभ्यस्तदाम्बुधेः ॥

नासीत्किमप्यदेयं वै घनवद्धनवर्षिणः

॥४५॥

भगवानपि तद्दत्तं यौतकं च धनं बहु ॥

ब्राह्मणेभ्यः प्रदायैव श्रिया सह तिरोदधे

॥४६॥

लक्ष्मीनारायणाभ्यां ते भृशमानन्दिताः सुराः ॥

इन्द्रादयो दिवं जग्मुः स्वंस्वं धामाऽपरे ययुः

॥४७॥

अधिकारं च संप्राप्य यथापूर्वं निजंनिजम् ॥

सर्वेपि सुखिनो जाताः प्रसादात्कमलापतेः

॥४८॥

मन्दरं च गिरिं तार्क्ष्यः पुनर्भगवदाज्ञया ॥

स्वस्थानं समुपानीय स्थापयामास लीलया

॥४९॥

एवमिन्द्रेण ब्रह्मर्षे नष्टा ब्राह्मणशापतः ॥

उपलब्धा पुनः संपन्नारायणप्रसादतः

॥५०॥

य एतां शृणुयात्पुण्यां कथां भगवतो मुने ॥

कीर्तयेत्प्रयतो वापि संपदं प्राप्नुतो हि तौ

॥५१॥

गृहिणां धनसिद्धिः स्यात्त्यागिनां च यथेप्सिता ॥

भक्तिज्ञानविरागादेर्भवेत्सिद्धिरनेन वै

॥५२॥

इति ते कथितं ब्रह्मन्यथेन्द्रः प्राप संपदम् ॥

नारदोपि यथा श्वेतं द्वीपं स गतवानृषिः ॥

तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकेन चैतसा

॥५३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये लक्ष्मीनारायणस्तुतिनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥