मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय ९

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 9

हिंस्रयज्ञप्रवृत्तिहेतुनिरूपणम्

स्कन्द उवाच

भाविधर्मविपर्यासकालवेगवशोऽथ सः ॥

नाहं क्षमिष्य इत्युक्त्वा कैलासं प्रययौ मुने

॥१॥

त्रैलोक्याच्छ्रीरपि तदा समुद्रेन्तर्द्धिमाययौ ॥

इन्द्रं विहायाप्सरसः सर्वशः श्रियमन्वयुः

॥२॥

तपः शौचं दया सत्यं पादः सद्धर्मऋद्धयः ॥

सिद्धयश्च बलं सत्त्वं सर्वतः श्रियमन्वयुः

॥३॥

गजादीनि च यानानि स्वर्णाद्याभूषणानि च ॥

चिक्षिपुर्मणिरत्नानि धातूपकरणानि च

॥४॥

अन्नान्यौषधयः स्नेहाः कालेनाल्पेन चिक्षियुः ॥

न क्षीरं धेनुमहिषीप्रमुखानां स्तनेष्वऽभूत्

॥५॥

नवापि निधयो नष्टाः कुबेरस्यापि मन्दिरात ॥

इन्द्रः सहामरगणैरासीत्तापससन्निभः

॥६॥

सर्वाणि भोगद्रव्याणि नाशमीयुस्त्रिलोकतः ॥

देवा दैत्या मनुष्याश्च सर्वे दारिद्यपीडिताः

॥७॥

कान्त्या हीनस्ततश्चन्द्रः प्रापाम्बुत्वं महोदधौ ॥

अनावृष्टिर्महत्यासीद्धान्यबीजक्षयंकरी

॥८॥

क्वान्नं क्वान्नेति जल्पन्तः क्षुत्क्षामाश्च निरोजसः ॥

त्यक्त्वा ग्रामान्पुरश्चोषुर्वनेषु च नगेषु च

॥९॥

क्षुधार्त्तास्ते पशून्हत्वा ग्राम्यानारण्यकांस्तथा ॥

पक्त्वाऽपक्त्वापि वा केचित्तेषां मांसान्यभुञ्जत

॥१०॥

विद्वांसो मुनयश्चाऽथ ये वै सद्धर्मचारिणः ॥

म्रियमाणाः क्षुधाऽथापि नाश्नन्त पललानि तु

॥११॥

तदा तु वृद्धा ऋषयस्तान्दृष्ट्वाऽनशनादृतान् ॥

मनुभिः सह वेदोक्तमापद्धर्ममबोधयन्

॥१२॥

मुनयः प्रायशस्तत्र क्षुधा व्याकुलितेन्द्रियाः ॥

परोक्षवादवेदार्थान्विपरीतान्प्रपेदिरे

॥१३॥

अर्थं चाजादिशब्दानां मुख्यं छागादिमेव ते ॥

बुबुधुश्चाऽथ ते प्राहुर्यज्ञान् कुरुत भो द्विजाः

॥१४॥

या वेदविहिता हिंसा न सा हिंसास्ति दोषदा ॥

उद्दिश्य देवान्पितॄंश्च ततो घ्नत पशूञ्छुभान्

॥१५॥

प्रोक्षितं देवताभ्यश्च पितृभ्यश्च निवेदितम् ॥

भुञ्जत स्वेप्सितं मांसं स्वार्थं तु घ्नत मा पशून्

॥१६॥

ततो देवर्षिभूपाला नराश्च स्वस्वशक्तितः ॥

चक्रुस्तैर्बोधिता यज्ञानृते ह्येकान्तिकान्हरेः

॥१७॥

गोमेधमश्वमेधं च नरमेधमुखान्मखान् ॥

चक्रुर्यज्ञावशिष्टानि मांसानि बुभुजुश्च ते

॥१८॥

विनष्टायाः श्रियः प्राप्त्यै केचिद्यज्ञांश्च चक्रिरे ॥

स्त्रीपुत्रमंदिराद्यर्थं केचिच्च स्वीयवृत्तये

॥१९॥

महायज्ञेष्वशक्तास्तु पितॄनुदिश्य भूरिशः ॥

निहत्य श्राद्धेषु पशून्मांसान्यादंस्तथाऽऽदयन्

॥२०॥

केचित्सरित्समुद्राणां तीरेष्वेवावसञ्जनाः ॥

मत्स्याञ्जालैरुपादाय तदाहारा बभूविरे

॥२१॥

स्वगृहागतशिष्टेभ्यः पशूनेव निहत्य च ॥

निवेदयामासुरेते गोछागप्रमुखान्मुने

॥२२॥

सजातीयविवाहानां नियमश्च तदा क्वचित् ॥

नाभवद्धर्मसांकर्याद्वित्तवेश्माद्यभावतः

॥२३॥

ब्राह्मणाः क्षत्रियादीनां क्षत्राद्या ब्रह्मणां सुताः ॥

उपयेमिरे कालगत्या स्वस्ववंशविवृद्धये

॥२४॥

इत्थं हिंसामया यज्ञाः संप्रवृत्ता महापदि ॥

धर्मस्त्वाभासमात्रोऽस्थात्स्वयं तु श्रियमन्वगात्

॥२५॥

अधर्मः सान्वयो लोकांस्त्रीनपि व्याप्य सर्वतः ॥

अवर्द्धताऽल्पकालेन दुर्निवार्यो बुधैरपि

॥२६॥

दरिद्राणामथैतेषामपत्यानि तु भूरिशः ॥

तेषां च वंशविस्तारो महाँल्लोकेष्ववर्द्धत

॥२७॥

विद्वांसस्तत्र ये जातास्ते तु धर्मं तमेव हि ॥

मेनिरे मुख्यमेवाऽथ ग्रन्थांश्चक्रुश्च तादृशान्

॥२८॥

ते परम्परया ग्रन्थाः प्रामाण्यं प्रतिपेदिरे ॥

आद्ये त्रेतायुगे हीत्थमासीद्धर्मस्य विप्लवः

॥२९॥

ततःप्रभृति लोकेषु यज्ञादौ पशुहिंसनम् ॥

बभूव सत्ये तु युगे धर्म आसीत्सनातनः

॥३०॥

कालेन महता सोपि सह देवैः सुराधिपः ॥

आराध्य संपदं प्राप वासुदेवं प्रभुं मुने

॥३१॥

ततो धर्मनिकेतस्य श्रीपतेः कृपया हरेः ॥

यथापूर्वं च सद्धर्मस्त्रिलोक्यां संप्रवर्त्तत

॥३२॥

तत्रापि केचिन्मुनयो नृपा देवाश्च मानुषाः ॥

कामक्रोधरसास्वादलोभोपहतसद्धियः ॥

तमापद्धर्ममद्यापि प्राधान्येनैव मन्वते

॥३३॥

एकान्तिनो भागवता जितकामादयस्तु ये ॥

आपद्यपि न तेऽगृह्णंस्तं तदा किमुताऽन्यदा

॥३४॥

इत्थं ब्रह्मन्नादिकल्पे हिंस्रयज्ञप्रवर्त्तनम् ॥

यथासीत्तन्मयाख्यातमापत्कालवशाद्भुवि

॥३५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये हिंस्रयज्ञप्रवृत्तिहेतुनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥