मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय २५

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 25

वैराग्यभक्तिनिरूपणम्

श्रीनारायण उवाच

वैराग्यस्याथ ते वच्मि लक्षणं मुनिसत्तम ॥

क्षयिष्णुवस्तुष्वरुचिः सर्वथेति तदीरितम्

॥१॥

आरभ्य मायापुरुषात्सर्वा ह्याकृतयस्तु याः ॥

कालशक्त्या भगवतो नाश्यन्ते ताश्च तद्वशाः

॥२॥

प्रत्यक्षेणानुमानेन शाब्देन च विवेकिभिः ॥

असत्यता कृतीनां च निश्चिता सत्यतात्मनाम्

॥३॥

नित्येन प्रलयेनैष कालो नैमित्तिकेन च ॥

प्राकृतिकेन रूपेण चरत्यात्यन्तिकेन च

॥४॥

देहिदेहा इमे नित्यं क्षीयन्ते परिणामिनः ॥

क्रमेण दृश्यते यत्र बाल्यतारुण्यवार्द्धकम्

॥५॥

सूक्ष्मत्वान्नेक्ष्यते तत्तु गतिर्दीपार्चिषो यथा ॥

फलवृद्धिर्वाऽनुपदं जायमाना द्रुमे यथा

॥६॥

तस्यांतस्यामवस्थायां दुःखं च महदीक्ष्यते ॥

जाग्रदादिष्ववस्थासु दुःखं चैव पुनःपुनः

॥७॥

दुःखमाध्यात्मिकं भूरि दृश्यते चाधिभौतिकम् ॥

आधिदैविकमप्यत्र दुःखमेवास्ति देहिनाम्

॥८॥

हाहा ममार मत्पुत्रो हा पत्नी म्रियते मम ॥

तातं मेऽभक्षयद्व्याघ्रो दष्टा सर्पेण मे वधूः

॥९॥

महासौधोग्निना दग्धो हाहा सोपस्करोऽद्य मे ॥

स्वकुटुम्बं कथं पोक्ष्ये नावर्षत्पाकशासनः

॥१०॥

सस्यैः समृद्धं मत्क्षेत्रं हाहा दग्धं हिमाग्निना ॥

ह्रियन्ते तस्करैर्गावः सर्वस्वं मम लुण्ठितम्

॥११॥

नृपेण दण्डितोऽत्यर्थं शत्रुणा हाऽतिताडितः ॥

किं करोमि च कं ब्रूयां माता मे व्यभिचारिणी

॥१२॥

विषं पास्यामि हाहाऽद्य मत्पत्नीं शत्रुराकृषत् ॥

हा स्वसा मे हृता म्लेच्छैर्हाहाऽरिः प्राप मर्मभित्

॥१३॥

प्रिये ज्वरातिव्यथया यमदूता इमे हहा ॥

इत्थं रोरूयमाणा हि दृश्यन्ते सर्वतो जनाः

॥१४॥

अवस्थानां शरीरस्य जन्ममृत्यू प्रतिक्षणम् ॥

कालेन प्राप्नुवद्भिः स्वं प्रारब्धं दुःखमश्यते

॥१५॥

प्रारब्धान्ते मृत्युदुःखं भवत्यप्रतिमं हि तत् ॥

मृत्वापि च महद्दुःखं प्राप्यते यमयातनाः

॥१६॥

ततो जरायुजोद्भिज्जस्वेदजाण्डजयोनिषु ॥

भूत्वाभूत्वा यथाकर्म म्रियते दुःखितैः पुनः

॥१७॥

नित्यः प्रलय एवं ते कीर्त्तितः सूक्ष्मया दृशा ॥

स ज्ञेयोऽथ मुने वच्मि लयं नैमित्तिकाभिधम्

॥१८॥

निमित्तीकृत्य रजनीं भवेद्विश्वसृजस्तु यः ॥

नैमित्तिकः स कथितो लयो दैनंदिनश्च सः

॥१९॥

चतुर्युगानां साहस्रं दिनं विश्वसृजो मुने ॥

निशा च तावती तस्य तद्द्वयं कल्प उच्यते

॥२०॥

एकैकस्मिन्दिने तस्य चतुर्दश चतुर्दश ॥

भवन्ति मनवो ब्रह्मन्धर्मसेत्वभिरक्षकाः

॥२१॥

आद्यः स्वायम्भुवस्तत्र मनुः स्वारोचिषस्ततः ॥

उत्तमस्तामसश्चाऽथ रैवतश्चाक्षुषस्ततः

॥२२॥

श्राद्धदेवश्च सावर्णि भौत्यो रौच्यस्ततः परम् ॥

ब्रह्मसावर्णिनामा च रुद्रसावर्णिरेव च

॥२३॥

मेरुसावर्णिसंज्ञोऽथ दक्षसावर्णिरन्तिमः ॥

चतुर्दशैते मनवः प्रोक्ता ब्रह्मैकवासरे

॥२४॥

एकैकस्य मनोः कालो युगानां चैकसप्ततिः ॥

दिव्यैर्द्वादशसाहस्रैर्युगकालश्च वत्सरैः

॥२५॥

चतुर्दशस्यैव मनोरन्तरेन्तमुपेयुषि ॥

सायंसंध्या विश्वसृजो जायते मुनिसत्तम

॥२६॥

दिनावसाने वैराजः शक्तीराकर्षति स्थितेः ॥

वैराजात्मा तदा रुद्रस्त्रिलोकीं हर्तुमीहते

॥२७॥

आदौ भवत्यनावृष्टिरत्युग्रा शतवार्षिकी ॥

तदाल्पसारसत्त्वानि क्षीयन्ते सर्वशो भुवि

॥२८॥

सांवर्त्तकस्य चार्कस्य रश्मयोऽत्युल्बणा रसम् ॥

आपातालात्पिबन्त्याशु धरण्यां सर्वमेव हि

॥२९॥

सारसं चैव नादेयं सामुद्रं चाम्बु सर्वशः ॥

शोषयित्वाऽखिलाँल्लोकान्सोऽर्को नयति संक्षयम्

॥३०॥

ततो भवति निःस्नेहा नष्टस्थावरजङ्गमा ॥

कूर्मपृष्ठोपमा भूमिः शुष्का संकुचिता भृशम्

॥३१॥

कालाग्निरुद्रः शेषस्य मुखादुत्पद्यते ततः ॥

अधोलोकान्सप्तभूमिं भुवः स्वश्च दहत्यसौ

॥३२॥

निर्दग्धलोकदशको ज्वालावर्त्तभयंकरः ॥

उद्वासितमहर्लोकः कालाग्निः परिवर्त्तते

॥३३॥

गताधिकारास्त्रिदशा भुवःस्वर्गनिवासिनः ॥

महर्लोकाज्जनं यान्ति वह्निज्वालाभृशार्दिताः

॥३४॥

निवृत्तिधर्मा ऋषयः प्राप्ताः सिद्धदशां तु ये ॥

भूतलात्तेपि तर्ह्येव ऋषिलोकं प्रयान्ति च

॥३५॥

उत्तिष्ठन्ति ततो घोरा व्योम्नि सांवर्त्तका घनाः ॥

महागजकुलप्रख्यास्तडित्वन्तोऽतिनादिनः

॥३६॥

धूम्रवर्णाः पीतवर्णा केचित्कुमुदसन्निभाः ॥

लाक्षारसनिभाः केचिच्चाषपत्रनिभास्तथा

॥३७॥

शमयित्वा महावह्निं शतं वर्षाण्यहर्न्निशम् ॥

वर्षमाणाः स्थूलधाराः स्तनन्तस्ते घना घनाः ॥

ब्रह्माण्डस्यान्तरालं च पूरयन्ति ध्रुवावधि

॥३८॥

एकार्णवजले तस्मिन्वैराजपुरुषः स तु ॥

अनिरुद्धात्मकः शेते नागेन्द्रशयने प्रभुः

॥३९॥

तदा देवाश्च ऋषयो रजःसत्त्वतमोवशाः ॥

ये ते सह विरिञ्चेन स्वकीयगुणकर्षिताः ॥

प्रविश्य तस्य जठरे शेरते दीर्घनिद्रया

॥४०॥

ये तु ब्रह्मात्मैक्यभावा वशीकृतगुणत्रयाः ॥

निवृत्तेनैव धर्मेण वासुदेवमुपासते

॥४१॥

महरादिषु लोकेषु ते चतुर्षु कृतालयाः ॥

तं वैराजं संस्तुवन्तो निवसन्ति यथासुखम्

॥४२॥

नारायणः स भगवान्स्वरूपं परमात्मनः ॥

चिन्तयन्वासुदेवाख्यं शेते वै योगनिद्रया

॥४३॥

निशान्ते ब्रह्मणा साकं सर्वे ते तस्य जाठराः ॥

उत्पद्यन्ते यथापूर्वं यथाकर्माधिकारिणः

॥४४॥

एवं नैमित्तिको नाम त्रिलोकीक्षयलक्षणः ॥

प्रलयः कथितस्तुभ्यं प्राकृतं कीर्त्तयाम्यथ

॥४५॥

य एष कल्पः कथितस्तादृशानां शतत्रयम् ॥

षष्ट्याधिकं च यः कालो वेधसः स तु वत्सरः

॥४६॥

पञ्चाशता तैः परार्द्धो ब्रह्मायुस्तद्द्वयं मतम् ॥

पराख्यकाले संपूर्णे महान्भवति संक्षयः

॥४७॥

संहाररुद्ररूपेण संहृत्य स्वं विराड्वपुः ॥

स्वपरं निर्गुणं रूपं वैराजो यातुमिच्छति

॥४८॥

तदा भवत्यनावृष्टिः पूर्ववच्छतवार्षिकी ॥

साङ्कर्षणश्च कालाग्निर्दहत्यण्डमशेषतः

॥४९॥

सांवर्त्तकास्ततो मेघा वर्षन्त्यति भयानकाः ॥

शतं वर्षाणि धाराभिर्मुसलाकृतिभिर्मुने

॥५०॥

महदादेर्विकारस्य विशेषान्तस्य संक्षयः ॥

सर्वस्यापि भवत्येव वासुदेवेच्छया ततः

॥५१॥

आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ॥

आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते

॥५२॥

ग्रसतेम्बुगुणं तेजो रसं तल्लीयते ततः ॥

रूपं तेजोगुणं वायुर्ग्रसते लीयतेऽथ तत्

॥५३॥

वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः ॥

प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम्

॥५४॥

भूतादिस्तद्गुणं शब्दं ग्रसते लीयते च खम् ॥

इन्द्रियाणि विलीयन्ते तैजसाहंकृतौ ततः

॥५५॥

अहङ्कारे विलीयन्ते सात्त्विके देवता मनः ॥

यद्यद्यस्मात्समुत्पन्नं तत्तत्तस्मिन्हि लीयते

॥५६॥

अहंकारो महत्तत्त्वे त्रिविधोपि प्रलीयते ॥

तत्प्रधाने च तत्पुंसि स मूलप्रकृतौ ततः

॥५७॥

एष प्राकृतिको नाम प्रलयः परिगीयते ॥

तिरोभवन्ति जीवेशा यत्राऽव्यक्ते हरीच्छया

॥५८॥

यदा च माया पुरुषौ कालोऽत्यक्षरतेजसि ॥

तदिच्छया तिरो यान्ति स त्वेको वर्तते प्रभुः ॥

तदा स प्रलयो ज्ञेयो नारदात्यन्तिकाभिधः

॥५९॥

इत्थं प्रभोः कालशक्त्या लयैरेतैश्चतुर्विधैः ॥

असद्बद्ध्वाऽखिलं तत्राऽरुचिर्वैराग्यमुच्यते

॥६०॥

वासुदेवेतरान्देवान्कालमायावशीकृतान् ॥

विदित्वा तेषु च प्रीतिं हित्वा तस्यैव नित्यदा ॥

गाढस्नेहेन या सेवा सा भक्तिरिति गीयते

॥६१॥

श्रवणं कीर्तनं तस्य स्मृतिश्चरणसेवनम् ॥

पूजा प्रणामो दास्यं च सख्यं चात्मनिवेदनम्

॥६२॥

इत्येतैर्न्नवभिर्भावैर्यः सेवेत तमादरात् ॥

अनन्यया धिषणया स हि भक्त इतीर्यते

॥६३॥

त्रिभिः स्वधर्मप्रमुखैर्युक्ताभक्तिरियं मुने ॥

धर्म एकान्तिक इति प्रोक्तो भागवतश्च सः

॥६४॥

साक्षाद्भगवतः सङ्गात्तद्भक्तानां च वेदृशाम् ॥

धर्मो ह्येकान्तिकः पुम्भिः प्राप्यते नान्यथा क्वचित्

॥६५॥

नैतादृशं परं किञ्चित्साधनं हि मुमुक्षताम् ॥

निःश्रेयसकरं पुंसां सर्वाभद्रविनाशनम्

॥६६॥

एकान्तधर्मसिद्ध्यर्थं क्रियायोगपरो भवेत् ॥

पुमान्स्याद्येन नैष्कर्म्यं कर्मणां मुनिसत्तम

॥६७॥

एतन्मया वेदपुराणगुह्यं तत्त्वं परं प्रोक्तमघौघनाशम् ॥

एकाग्रया शुद्धधियावधार्य सच्छ्रद्धया चेतसि ते महर्षे

॥६८॥

न वासुदेवात्परमस्ति पावनं न वासुदेवात्परमस्ति मङ्गलम् ॥

न वासुदेवात्परमस्ति दैवतं न वासुदेवात्परमस्ति वाञ्छितम्

॥६९॥

यन्नामधेयं सकृदप्यबुद्ध्या देहावसानेपि गृणाति योऽत्र ॥

स पुष्कसोप्याशु भवप्रवाहाद्विमुच्यते तं भज वासुदेवम्

॥७०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वैराग्यभक्तिनिरूपणं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥