मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय ३१

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 31

श्रुत्वैतत्सकलं धर्म्यं यथावद्भगवद्वचः

स्कन्द उवाच

श्रुत्वैतत्सकलं धर्म्यं यथावद्भगवद्वचः ॥

निःसंशयो मुनिः प्राह तं प्रणम्य कृताञ्जलिः

॥१॥

नारद उवाच

नष्टा मे संशयाः सर्वे प्रसादाद्भगवंस्तव ॥

वासुदेवस्य माहात्म्यं मयाधिगतमञ्जसा

॥२॥

कंचित्कालमिहैवाहं तपः कुर्वंस्त्वया सह ॥

शृण्वंश्च नित्यं ज्ञानादि करिष्ये पक्वमात्मनः

॥३॥

स्कन्द उवाच

इत्युक्त्वा नारदस्तत्र तेन चाप्यनुमोदितः ॥

उवास दिव्यवर्षाणां सहस्रं स तपश्चरन्

॥४॥

शुश्राव चानुदिवसं यथाकालं हरेर्मुखात् ॥

धर्मज्ञानाद्यथ प्राप पक्वतां तत्र योगिराट्

॥५॥

स्नेहं च परमं प्राप स श्रीकृष्णेऽखिलात्मनि ॥

गुणगानपरो नित्यमास भागवताग्रणीः

॥६॥

भक्तिनिष्ठां परां प्राप्तमथ तं सिद्धयोगिनम् ॥

उवाच भगवत्प्रीतः श्रेयस्कृत्सर्वदेहिनाम्

॥७॥

श्रीनारायण उवाच

सिद्धोसि त्वं महर्षेऽद्य गच्छ लोकहितं कुरु ॥

एकान्तधर्मं सर्वत्र प्रवर्त्तयितुमर्हसि

॥८॥

स्कन्द उवाच

इत्याज्ञां शिरसा तस्य स आदाय जगद्गुरोः ॥

गच्छंस्ततस्तमस्तौषीत्प्रणम्य प्राञ्जलिः स्थितः

॥९॥

नारद उवाच

नमोनमस्ते भगवञ्जगद्गुरो नारायणाऽप्राकृत दिव्यमूर्ते ॥

अनन्तकल्याणगुणाकरस्त्वं दासे मयि प्रीततरः मदा स्याः

॥१०॥

त्वं वासुदेवोसि जगन्निवासः क्षेमाय लोकस्य तपः करोषि ॥

योगेश्वरेशोपशमस्थ आत्मारामाधिपस्त्वं परहंससद्गुरुः

॥११॥

विभुर्ऋषीणामृषभोऽक्षरात्मा जीवेश्वराणां च नियामकोसि ॥

साक्षी महापूरुष आत्मतन्त्रः कालोऽभवद्यद्भ्रुकुटेर्महांश्च

॥१२॥

सर्गादिलीला जगतां त्वमीश करोषि मायापुरुषात्मनैव ॥

तथाप्यकर्त्ता ननु निर्गुणोसि भूमा परब्रह्म परात्परश्च

॥१३॥

सत्यः स्वयंज्योतिरतर्क्यशक्तिस्त्वं ब्रह्मभूतात्मविचिन्त्यमूर्त्तिः ॥

बृहद्व्रताचार्य महामुनीन्द्र कन्दर्पदर्पापहरप्रताप

॥१४॥

तपस्विनां ये रिपवः प्रसिद्धाः क्रोधो रसो मत्सरलोभमुख्याः ॥

अप्याश्रमं तेपि कदापि वेष्टुं नेमं क्षमा ह्येष तव प्रतापः

॥१५॥

छन्दोमयो ज्ञानमयोऽमृताध्वा धर्मात्मको धर्मसर्गाभिपोष्टा ॥

उन्मूलिताधर्मसर्गो महात्मा त्वमव्ययश्चाक्षयोऽव्यक्तबन्धुः

॥१६॥

निर्दोषरूपस्य तवाऽखिलाः क्रिया भवन्ति वै निर्गुणा निर्गुणस्य ॥

धर्मार्थकामेप्सुभिरर्चनीयस्त्वमीश्वरो नाथ मुमुक्षुभिश्च ॥

त्वं कालमायायमसंसृतिभ्यो महाभयात्पातुमेकः समर्थः ॥

भक्तापराधाननवेक्षमाणो महादयालुः किल भक्तवत्सलः

॥१८॥

धृतावतारस्य हि नाममात्रं रूपं च वा यः स्मरेदन्तकाले ॥

सोपि प्रभो घोरमहाघसंघात्सद्यो विमुक्तो दिवमाशु याति

॥१९॥

तं त्वां विहायाऽत्र तु यो मनुष्यो देहे त्रिधातावपि देहिकेषु ॥

जायात्मजज्ञातिधनेषु सज्जते स मायया वञ्चित एव मूढः

॥२०॥

त्वद्भक्तियोग्यो नरदेह एव यं कामयन्तेऽपि च नाकसंस्थाः ॥

त्वद्भक्तिहीनं हि दिवोपि सौख्यमहं तु जाने नरकेण तुल्यम्

॥२१॥

तपस्त्रिलोक्याः कुरुषे सुखाय तत्रापि ते भारतवासिपुंसु ॥

अनुग्रहो भूरितरो यदत्र कृतावतारो विचरन्विराजसे

॥२२॥

तस्याश्रयं ये तव नात्र कुर्वते त एव शास्त्रेषु मताः कृतघ्नाः ॥

अतस्तवैकाश्रयमेव बाढं कुर्वत्यजस्रं मयि तेऽस्तु तुष्टिः

॥२३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीनरनारायणस्तुतिनिरूपणंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥