पूजामण्डलरचनाविधिनिरूपणम्
श्रीनारायण उवाच
खननोक्षणलेपाद्यैः शोधिते धरणीतले ॥
चतुष्पादं न्यसेत्पीठं नानारङ्गसुशोभिते
॥१॥अर्चकः प्राङ्मुखः पीठपादान्कोणेषु कारयेत् ॥
चतुर्षु तेषु धर्मादीन्स्थापयेत्सिंहरूपिणः
॥२॥अग्नौ धर्मं न्यसेच्छ्वेतं ज्ञानं शोणं च नैर्ऋते ॥
वायौ तु पीतं वैराग्यं श्याममैश्वर्यमैशके
॥३॥मनोधीचित्ताहङ्कारान्क्रमात्पूर्वादिदिक्ष्वऽथ ॥
विन्यसेत्पीठगात्रेषु हरिद्रक्तसितासितान्
॥४॥स्थाप्या रक्तसितश्यामा रजःसत्त्वतमोगुणाः ॥
पीठस्य पट्टिकायां तु त्रयोपि मुनिसत्तम
॥५॥अन्तःकरणरूपेषु गात्रेष्वथ चतुर्ष्वपि ॥
विमलाद्या न्यसेच्छक्तीर्द्वेद्वे एकैकगात्रके
॥६॥विमलोत्कर्षिणीति द्वे गौराङ्ग्यौ पूर्वतो न्यसेत् ॥
वादयन्त्यौ शुभां वीणां हरिद्वस्त्रे स्वलंकृते
॥७॥ज्ञानाक्रिये न्यसेद्याम्ये पीतवस्त्रेऽरुणद्युती ॥
एका तालं वादयन्ती मृदङ्गमपरा तथा
॥८॥योगाप्रद्ध्यौ न्यसेत्पश्चाच्छ्यामे अरुणवाससौ ॥
सहेव मुरली चोभे वादयन्त्यौ पृथक्पृथक्
॥९॥सत्येशाने हेमवर्णे उत्तरस्यां ततो न्यसेत् ॥
श्यामांशुके वादयन्त्यावुभे ते परिवादिनीम्
॥१०॥अनुग्रहाख्या पट्टिकायां स्थाप्यैका च कृताञ्जलिः ॥
सर्वा एतास्तु कर्तव्या द्विभुजाः सुविभूषणाः
॥११॥पीठोपरि सितद्वीपं कुर्वीत श्वेतवाससा ॥
तन्मध्येऽष्टदलं पद्मं कुर्वीतोज्वलकर्णिकम्
॥१२॥द्वादशांशं परित्यज्य पद्मक्षेत्रस्य बाह्यतः ॥
वृत्तैस्त्रिभिस्तस्य मध्यं विभजेत्समभागतः
॥१३॥तत्राद्यं कर्णिकास्थानं केसराणां तु मध्यमम् ॥
पत्राणां तु तृतीयं स्याद्दलाग्राणि तु बाह्यतः
॥१४॥परितस्तस्य च पुरं चतुर्द्वारं प्रकल्पयेत् ॥
रङ्गद्रव्यैर्बहुविधैर्हरिद्राकुंकुमादिभिः
॥१५॥कुर्वीत तण्डुलैर्वापि तत्र पद्मादि शोभनम् ॥
पद्मस्य कर्णिकां मध्ये हेमवर्णा सुशोभयेत्
॥१६॥शोणवर्णानि पत्राणि परितस्तस्य चार्चकः ॥
कुर्यादष्टाप्यष्टदिक्षु स्वर्णवर्णानि वा मुने
॥१७॥पूर्वं तु गोपुरं शोणं श्यामं कुर्याच्च दक्षिणम् ॥
पीतवर्णं पश्चिमं च स्फटिकाभं तथोत्तरम्
॥१८॥अन्तराले च पुष्पाणि चित्राणि पुरपद्मयोः ॥
कृत्वा मध्येऽथ श्रीकृष्णं तद्वामे राधिकां न्यसेत्
॥१९॥राधाकृष्णस्यास्य ततः पृष्ठे संकर्षणं न्यसेत् ॥
चतुर्बाहुं धृतच्छत्रं गौराङ्गं नीलवाससम्
॥२०॥दक्षे न्यसेद्भगवतः प्रद्युम्नं पीतवाससम् ॥
चतुर्भुजं घनश्यामं धृत्वा चामरमास्थितम्
॥२१॥वामेऽनिरुद्धं च हरेर्न्यसेदरुणवाससम् ॥
इन्द्रनीलमणिश्यामं संस्थितं धृतचामरम्
॥२२॥त्रयोप्येते तु कर्तव्या नानालंकारशोभिताः ॥
अनर्घ्यरत्नमुकुटास्तारुण्येन मनोहराः
॥२३॥ततोऽवतारांस्तु हरेः केसरेष्वष्टसु क्रमात् ॥
एकैकस्मिन्न्यसेद् द्वौद्वावष्टस्वेवं हि षोडश
॥२४॥स्थापयेद्वामनं बुद्धं पूर्वस्मिन्केसरेऽग्रतः ॥
घनश्यामावुभौ ह्येतौ करुणौ ब्रह्मचारिणौ
॥२५॥सितांशुकौ करे दक्षे बिभ्रतौ फुल्लपङ्कजम् ॥
अभयं वामहस्ते च शान्तौ यज्ञोपवीतिनौ
॥२६॥कल्किनं पर्शुरामं च वह्निकोणेऽथ विन्यसेत् ॥
खङ्गपाणिस्तत्र कल्की पर्शुपाणिस्तथाऽपरः
॥२७॥उभौ गौरौ च ताम्राक्षौ जटिलौ सितवाससौ ॥
यज्ञोपवीतिनौ कार्यौ त्यक्तक्रोधमहारयौ
॥२८॥हयग्रीववराहौ च स्थापयेद्याम्यकेसरे ॥
हयग्रीवो हयास्यः स्यान्नरांगश्च चतुर्भुजः
॥२९॥शङ्खादिभृत्स्वर्णवर्णो धृतदिव्यसिताम्बरः ॥
वराहस्तु वराहास्यो नरांगः स्याच्चतुर्भुजः
॥३०॥शङ्खचक्रगदाब्जानि दधत्पीताम्बरं तथा ॥
मधुपिंगलवर्णश्च कर्त्तव्यो द्विभुजोऽथ वा
॥३१॥मत्स्यकूर्म्मौ नैर्ऋते च स्थापयेत्केसरे ततः ॥
कटेरधस्तदाकारावूर्द्ध्वं तौ तु नराकृती
॥३२॥वामे शंखं गदां दक्षे पाणौ च दधतावुभौ ॥
श्यामसुन्दरदेहौ च कर्त्तव्यौ धृतभूषणौ
॥३३॥धन्वन्तरिं नृसिंहं च पश्चिमे केसरे न्यसेत् ॥
धन्वन्तरिः शुक्लवासा गौरांगोऽमृतकुम्भधृत्
॥३४॥सिंहवक्त्रो नृसिंहस्तु नृदेहः केसरान्वितः ॥
नीलोत्पलाभो द्विभुजो गदाचक्रधरो भवेत
॥३५॥वायौ न्यसेदुभौ हंसदत्तात्रेयौ जटाधरौ ॥
योगिवेषौ सितौ दण्डकमण्डलुकरौ तथा
॥३६॥उत्तरे केसरे व्यासं न्यसेद्गणपतिं ततः ॥
तत्र व्यासो विशालाक्षः कृष्णवर्णः सिताम्बरः
॥३७॥द्विभुजो धृतवेदश्च सुपिशंगजटाधरः ॥
सितयज्ञोपवीतश्च कर्त्तव्यः सपवित्रकः
॥३८॥गजास्य एकदन्तश्च रक्तो गणपतिर्भवेत् ॥
रक्ताम्बरधरश्चैव नागयज्ञोपवीतवान्
॥३९॥तुन्दिलश्च चतुर्बाहुः पाशाङ्कुशवरान्दधत् ॥
करेणैकेन च दधद्रम्यां पुस्तकलेखिनीम्
॥४०॥न्यसेत्केसर ईशाने कपिलं पूजकस्ततः ॥
सनत्कुमारं च मुनिं नैष्ठिकब्रह्मचारिणम्
॥४१॥शुक्लांगः कपिलः कार्यो धृतचारुसिताम्बरः ॥
दधत्कराभ्यामम्भोजमभयं शान्तविग्रहम्
॥४२॥पञ्चवार्षिकबालाभो दिग्वस्त्रोऽल्पजटाधरः ॥
सनत्कुमारश्च मुनिः कर्त्तव्यः पूजकेन तु
॥४३॥संस्थाप्य केसरेष्वित्थं देवताः पङ्कजस्य तु ॥
न्यसेच्च दलमध्येषु पार्षदानर्च्चकोऽष्टसु
॥४४॥विष्वक्सेनं च गरुडं तत्रादौ पूर्वतो न्यसेत् ॥
ततो दक्षक्रमेणैव प्रबलं च बलं न्यसेत्
॥४५॥कुमुदं कुमुदाक्षं च सुनन्दं नन्दमेव च ॥
श्रुतदेवं जयन्तं च विन्यसेद्विजयं जयम्
॥४६॥ततः प्रचण्डं चण्डं च पुष्पदन्तं च सात्वतम् ॥
द्वौद्वावेवं क्रमेणैव स्थानेष्वष्टसु विन्यसेत्
॥४७॥चतुर्भुजाः सर्व एते शङ्खार्यब्जगदाधराः ॥
कार्याः किरिटिनः श्यामाः पीतवस्त्राः सुभूषणाः
॥४८॥दलमध्यान्तरालेषु सिद्धीरष्टसु विन्यसेत् ॥
नाना मंगलवाद्यानां वादने निपुणाः क्रमात्
॥४९॥अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ॥
ईशिता वशिता चैवाष्टमी कामावसायिता
॥५०॥एताः सुवर्णवर्णाभाः सर्वाभरणभूषिताः ॥
वेणुवीणादिहस्ताश्च कर्त्तव्याश्चित्रवाससः
॥५१॥दलाग्रेष्वष्टसु ततो वेदाञ्छास्त्राणि च न्यसेत् ॥
तत्र वेदान्न्यसेद्दिक्षु शास्त्राणि तु विदिक्षु सः
॥५२॥पूर्वे न्यसेत्तु ऋग्वेदमक्षमालाधरं सितम् ॥
खर्वं लम्बोदरं सौम्यं पद्मनेत्रं सिताम्बरम्
॥५३॥याम्ये न्यसेद्यजुर्वेदं मध्यमांगं कृशोदरम् ॥
पिंगाक्षं स्थूलकण्ठं च पीतं चारुणवाससम्
॥५४॥अक्षस्रजं करे वामे दक्षे वज्रं च बिभ्रतम् ॥
पश्चिमे सामवेदं च प्रांशुमादित्यवर्चसम्
॥५५॥दक्षेऽक्षमालां वामे च धृतवन्तं करे दरम् ॥
स्वर्णवस्त्रं विशालाक्षं विन्यसेद्गायनोद्यतम्
॥५६॥अथर्वाणं न्यसेत्सौम्ये सितांगं नीलवाससम् ॥
वामेऽक्षसूत्रं दक्षे च खट्वांगं बिभ्रतं करे ॥
वह्न्योजसं च ताम्राक्षं वयसा स्थविरं तथा
॥५७॥अग्निकोणे धर्मशास्त्रं न्यसेच्च कमलासनम् ॥
श्वेतं च बिभ्रतं दोर्भ्यां मुक्तामालां तथातुलाम्
॥५८॥दीर्घकेशनखं सांख्यं नैर्ऋते तुन्दिलं न्यसेत् ।
जपमालां च दण्डं च कराभ्यां बिभ्रतं सितम्
॥५९॥न्यसेद्वायौ ततो योगं स्वर्णवर्णं कृशोदरम् ॥
ऊरुन्यस्तकरद्वन्द्वं स्वनासाग्रकृतेक्षणम्
॥६०॥पञ्चरात्रं तथेशाने धवलं वनमालिनम् ॥
न्यसेत्कराभ्यां दधतमक्षमालां च लांगलम्
॥६१॥एषां चतुर्णां वासांसि श्वेतसूक्ष्मघनानि च ॥
कर्त्तव्यानि तथाक्षीणि पद्मपत्रायतानि च
॥६२॥अग्राणामन्तरालेषु महर्षींश्च सयोषितः ॥
विन्यसेत्पठतो वेदान्पूर्वाग्नेयाद्यनुक्रमात्
॥६३॥मरीचिं कलया युक्तमत्रिं चाप्यनसूयया ॥
श्रद्धयांगिरसं साकं पुलस्त्यं च हविर्भुवा
॥६४॥गत्या युक्तं च पुलहं क्रियया च सह क्रतुम् ॥
ख्यात्या भृगुमरुन्धत्या वशिष्ठं सह विन्यसेत्
॥६५॥द्विभुजाः सर्व एवैते जटाश्मश्रुधराः कृशाः ॥
कार्यास्तपस्विनो दण्डान्दधतश्च कमण्डलून्
॥६६॥पद्माद्बहिर्न्यसेच्चाऽष्टौ दिशासु विदिशासु च ॥
दिक्पालानिन्द्रप्रमुखान्सहयानान्यथादिशम्
॥६७॥प्राच्यामैरावतारूढं न्यसेदिन्द्रं चतुर्भुजम् ॥
वज्रांकुशाम्बुजवरान्दधतं स्वर्णसन्निभम्
॥६८॥कौसुम्भरम्यवसनं नानालंकारशोभितम् ॥
शोणापांगं विशालाक्षं सर्वलक्षणलक्षितम्
॥६९॥अग्निकोणे न्यसेदग्निं ताम्रवर्णं चतुर्भुजम् ॥
दधानं पाणिभिश्चैव शूलं शक्तिं स्रुचं स्रुवम्
॥७०॥चतुःशुके हैमरथे निषण्णं वायुसारथिम् ॥
त्रिनेत्रं धूम्रवसनं पिङ्गश्मश्रुजटेक्षणम्
॥७१॥यमं न्यसेद्दक्षिणतः श्यामं चामीकराम्बरम् ॥
चतुर्भुजं दण्डखड्गपरशुं पाशधारिणम् ॥
उन्मत्तमहिषारूढं नानाभूषणभूषितम्
॥७२॥ऊर्द्ध्वकेशं विरूपाक्षं नैर्ऋतं नैर्ऋते न्यसेत् ॥
खड्गं पाशं च दधतं द्विभुजं नरवाहनम्
॥७३॥हरिश्मश्रुं धूम्रवर्णं परिवीतासिताम्बरम् ॥
हाटकानेकभूषाढ्यमवैष्णवभयंकरम्
॥७४॥ततः प्रतीच्यां वरुणमिन्द्रनीलमणिप्रभम् ॥
श्वेताम्बरं चतुर्बाहुं मुक्ताहार विभूषितम्
॥७५॥सप्तहंसरथारूढं दोर्भ्यां पाशं च बिभ्रतम् ॥
अन्याभ्यां रत्नपात्रं च शंखं च दधतं न्यसेत्
॥७६॥वायौ वायुं हरिद्वर्णं द्विभुजं कृष्णवाससम् ॥
पृषत्स्थं मुक्तकेशं च व्यात्तास्यं ध्वजिनं न्यसेत्
॥७७॥सौम्ये न्यसेत्कुबेरं च स्वर्णवर्णं चतुर्भुजम् ॥
गदाशक्तित्रिशूलानि रत्नपात्रं च बिभ्रतम्
॥७८॥नीलाम्बरं श्मश्रुलं च शिबिकायां समास्थितम् ॥
पिशंगवामनयनं नैकभूषं च वर्मिणम्
॥७९॥ईशानेऽथ मूहारुद्रमर्द्धनारीश्वरं न्यसेत् ॥
वामार्द्धे पार्वती कार्या दक्षार्द्धे तत्र शंकरः
॥८०॥ईश्वरार्द्धे जटाजूटं कर्तव्यं चन्द्रभूषितम् ॥
उमार्द्धे तिलकं कार्यं सीमन्तमलिके तथा
॥८१॥भस्मनोद्धूलितं चार्द्धमर्द्धं कुंकुमभूषितम् ॥
नागोपवीतं चाप्यर्द्धमर्द्धं हारविभूषितम्
॥८२॥वामार्द्धे च स्तनः पीनः कर्त्तव्यः कंचुकीवृतः ॥
कट्यां च रशना हैमी पादे काञ्चननूपुरम्
॥८३॥कौसुम्भं वसनं चैव करौ कंकणभूषितौ ॥
त्रिशूलमक्षसूत्रं च दधतौ रत्नमुद्रिकौ
॥८४॥दक्षार्द्धे रशना सार्पी कार्या वस्त्रं गजाजिनम् ॥
करौ च नागवलयौ दर्पणोत्पलधारिणौ
॥८५॥एवंविधं महादेवं न्यसेद्वृषभवाहनम् ॥
इत्थमष्टदिगीशानां कुर्यात्स्थापनमर्चकः
॥८६॥पुराद्बहिस्ततश्चाष्टौ स्थापयेदर्चको ग्रहान् ॥
स्वस्वदिक्षु स्थितान्स्वस्वान्यारूढान्स्यन्दनानि च
॥८७॥प्राच्यां दिशि न्यसेत्तत्र भास्करं पीतवाससम् ॥
सिन्दूरवर्णं द्विभुजं पद्महस्तं रथे स्थितम्
॥८८॥एकं चक्रं द्वादशारं रथस्यास्यातितेजसः ॥
सप्ताश्वाश्च हरिद्वर्णा वामे सन्ति नियोजिताः
॥८९॥अग्निकोणे ततः स्थाप्यो भृगुः श्वेतः सिताम्बरः ॥
दण्डं कमण्डलुं बिभ्रद्द्विबाहुः सौम्यदर्शनः
॥९०॥चित्रवर्णाश्वदशके स्थितो हेममये रथे ॥
दक्षिणे च न्यसेद्भौमं रक्तं रक्ताम्बरं तथा
॥९१॥चतुर्भुजं गदाशक्तित्रिशूलवरधारिणम् ॥
तस्य हैमं रथं कुर्यादरुणाष्टहयान्वितम्
॥९२॥राहुश्च नैर्ऋते कोणे नीलवासाश्चतुर्भुजः ॥
करालास्यस्तमोरूपश्चर्मासिशक्तिशूलधृत्
॥९३॥भृङ्गवर्णाष्टतुरगे स्थितः कार्यस्त्वयोरथे ॥
सौरिश्च पश्चिमे स्थाप्य इन्द्रनीलसमद्युतिः
॥९४॥धन्वी त्रिशूली द्विभुजो मन्दाक्षश्चासिताम्बरः ॥
शबलाष्टाश्वसंयुक्ते स्थितः कार्ष्णायसे रथे
॥९५॥वायुकोणे ततश्चन्द्रं स्थापयेच्च सिताम्बरम् ॥
श्वेतवर्णं गदाहस्तं द्विभुजं च रथे स्थितम्
॥९६॥शतारचक्रत्रितये स्यन्दने तस्य चाम्मये ॥
कुन्दाभाः सन्त्युभयतो योजितास्तुरगा दश
॥९७॥उत्तरे द्विभुजः सौम्यो वराभयकरोरुणः ॥
हरिद्वासाष्टपिंगाश्वे कार्यो हैमरथे स्थितः
॥९८॥ईशाने च गुरुः स्थाप्यो हेमवर्णः सिताम्बरः ॥
द्विभुजः पद्मनयनो धृतदण्डकमण्डलुः ॥
पाण्डुराष्टहये हैमे निषण्णः स्यन्दनोत्तमे
॥९९॥अंगदेवान्भगवतः स्थापयेदित्थमर्चकः ॥
कर्णिकाद्रिपुरान्तान्तस्थानेषु क्रमशोऽखिलान्
॥१००॥वासुदेवांगदेवानां न्यसेन्मूर्त्तीस्तु वैभवी ॥
पूगफलानीतरस्तु न्यसेत्पुष्पाक्षतादि वा
॥१०१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे पूजामण्डलरचनाविधिनिरूपणं नाम सप्तविंशोऽध्यायः ॥ २७ ॥