मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १०

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 10

श्रीवासुदेवप्रसादनिरूपणम्

सावर्णिरुवाच

कथं प्राप्ता पुनः स्कन्द श्रीरिन्द्रेण गताम्बुधिम् ॥

एतां कथय मे सर्वां कथां नारायणाश्रयाम्

॥१॥

स्कन्द उवाच

श्रिया विहीनो देवेन्द्रः श्रीहीनैरपि दानवैः ॥

पराजितो हृतस्थानो नष्टाशेषपरिच्छदः

॥२॥

गिरिगह्वरकुञ्जेषु काननेषु ततस्ततः ॥

परिबभ्राम सहितो दिगीशैर्वरुणादिभिः

॥३॥

वल्कलाजिन वस्त्राश्च पशुपक्ष्यामिषाशनाः ॥

देवा दैत्या नरा नागास्तुल्याचारपरिच्छदाः

॥४॥

पात्राणि मृन्मयान्येव सर्वेषामपि वेश्मसु ॥

आसन्वराकाः सर्वेपि पिशाच्य इव च स्त्रियः

॥५॥

आदावभूदनावृष्टिर्भुवि द्वादशवार्षिकी ॥

ततो वर्षे क्वचिद्वृष्टिरासीत्स्वल्पा क्वचिन्न च

॥६॥

इत्थं दारिद्र्यदुःखानां तेषां वर्षशतं गतम् ॥

बलिष्ठारब्धकर्माणस्तेऽतिदुःखेपि नो मृताः

॥७॥

अजीवन्त मृतप्राया नरकेष्विव नारकाः ॥

यतन्तोपि श्रियः प्राप्त्यै यज्ञाद्यैर्न्नाऽलभन्त ताम्

॥८॥

ततः सहस्रवर्षान्ते मेरौ शरणमाययुः ॥

शापाद्दुर्वाससो देवाः सर्वे दुर्वाससो विधिम्

॥९॥

प्रणम्य तस्मै दुःखं स्वं वासवाद्या न्यवेदयन् ॥

आदावेव हि सोऽज्ञासीत्सर्वज्ञत्वात्सुरापदम्

॥१०॥

उपालभ्य ततश्चेन्द्रं विरिञ्चः सहशंकरः ॥

तद्दुःखवारणा कल्पो विष्णुमैच्छत्प्रसादितुम्

॥११॥

आराधयिष्यंस्तपसा ततोऽसौ तं तपःप्रियम् ॥

सर्वदेवगणोपेत उपायात्क्षीरसागरम्

॥१२॥

तस्योत्तरे तटे रम्ये सर्वे तेऽनशनव्रताः ॥

एकपादस्थिता ऊर्द्ध्वबाहवश्चक्रिरे तपः

॥१३॥

केशवं हृदि ते दध्युः सर्वक्लेशविनाशनम् ॥

लक्ष्मीपतिं वासुदेवमेकाग्रकृतमानसाः

॥१४॥

शताब्दान्ते ततो विष्णुः श्रीकृष्णो भगवान्स्वयम् ॥

अत्यापन्नेषु दीनेषु कृपां देवेषु सोऽकरोत्

॥१५॥

अदृश्यमूर्तिरात्मज्ञैरपि भूरितपस्विभिः ॥

तत्राविरासीत्कृपया नियुताहस्करद्युतिः

॥१६॥

तेजोमण्डलमेवादौ सहसा स्फुरितं महत् ॥

ददृशुर्विबुधाः सर्वे सितं घनमनौपमम्

॥१७॥

ब्रह्मा शिवश्च तन्मध्ये ददृशाते रमापतिम् ॥

घनश्यामं चतुर्बाहुं गदाब्जाब्जारिधारिणम्

॥१८॥

किरीटकाञ्चीकटककुण्डलादिविभूषितम् ॥

पीतकौशेयवसनं दिव्यसुन्दरविग्रहम्

॥१९॥

हर्षविह्वलितान्मानौ दण्डवत्तौ प्रणेमतुः ॥

तदिच्छयाऽथ देवाश्च दृष्ट्वा तं च मुदाऽऽनमन्

॥२०॥

बभूवुरतिहृष्टास्ते निधिं प्राप्याऽधना इव ॥

बद्धाञ्जलिपुटाः सर्वे भक्त्या तं तुष्टुवुः सुराः

॥२१॥

देवा ऊचुः

ॐनमो भगवते तुभ्यं वासुदेवाय धीमहि ॥

प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च

॥२२॥

ॐकारब्रह्मरूपाय त्रेधाविष्कृतमूर्तये ॥

ब्रह्माण्डसर्गस्थित्यन्तहेतवे निर्गुणाय च

॥२३॥

नयनानन्दरूपाय प्रणतक्लेशनाशिने ॥

केशवाय नमस्तुभ्यं स्वतंत्रेश्वरमूर्तये

॥२४॥

मोदिताशेषभक्ताय कालमायादिमोहिने ॥

सदानंदाय कृष्णाय नमः सद्धर्मवर्त्तिने

॥२५॥

भवाम्बुधिनिमग्रानामुद्धृतिक्षमकीर्तये ॥

दर्शनीयस्वरूपाय घनश्यामाय ते नमः

॥२६॥

गदाब्जदरचक्राणि बिभ्रते दीर्घबाहुभिः ॥

सुरगोविप्रधर्माणां गोप्त्रे तुभ्यं नमोनमः

॥२७॥

वरेण्याय प्रपन्नानामभीष्टवरदायिने ॥

निगमागमवेद्याय वेदगर्भाय ते नमः

॥२८॥

तेजोमण्डलमध्यस्थ दिव्यसुन्दरमूर्तये ॥

नमामो विष्णवे तुभ्यं परात्परतराय च

॥२९॥

वाणीमनोविप्रकृष्टमहिम्नेऽक्षररूपिणे ॥

सर्वान्तर्यामिणे तुभ्यं बृहते च नमोनमः

॥३०॥

सुखदोसि त्वमेवैकः स्वाश्रितानामतो वयम् ॥

महापदधिकक्लिष्टाः शरणं त्वामुपागताः

॥३१॥

देवाधिदेवभक्तस्य तव दुर्वाससो वयम् ॥

अतिक्रमाच्छ्रिया हीनाः प्राप्ताः स्मो दुर्दशामिमाम्

॥३२॥

वासोन्नपानस्थानादिहीनान्धर्मोपि नः प्रभो ॥

त्यक्त्वा सह श्रिया यातस्तान्पातुं त्वमसीश्वरः

॥३३॥

यतो वयं च धर्मश्च त्वदीया इति विश्रुताः ॥

यथापूर्वं सुखीकर्त्तुं त्वमेवार्हस्यतो हि नः

॥३४॥

स्कन्द उवाच

इति संप्रार्थितो देवैर्भगवान्स दयानिधिः ॥

उवाचानन्दयन्वाचा मेघगम्भीरया सुरान्

॥३५॥

श्रीभगवानुवाच

विदितं मे सुराः सर्वं कष्टं वः सदतिक्रमात् ॥

उपायं कुरुताद्यैव वच्मि यत्तन्निवृत्तये

॥३६॥

ओषधीरम्बुधौ सर्वाः क्षिप्त्वा मन्दरभूभृता ॥

नागराजवरत्रेण मंथध्वमसुरैः सह

॥३७॥

आदौ संधाय दनुजैः कुरुताम्बुधिमन्थनम् ॥

साहायं वः करिष्यामि खेदः कार्यो न तत्र वः

॥३८॥

अमृतं च श्रियो दृष्टिं प्राप्य पूर्वाधिकौजसः ॥

भवितारो मद्विमुखा दैत्यास्तु क्लेशभागिनः

॥३९॥

स्कन्द उवाच

इत्युक्त्वांतर्दधे विष्णुर्भक्तसङ्कटनाशनः ॥

देवास्तस्मै नमस्कृत्य तदुक्तं कर्तुमारभन्

॥४०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवप्रसादनिरूपणं नाम दशमोऽध्यायः ॥ १० ॥