उपरिचरवसुसद्गुणवर्णनम्
स्कन्द उवाच
आसीद्राजोपरिचरो वसुनामा पुरा मुने ॥
भूभर्त्तुरायोस्तनयः ख्यातश्चासावमावसुः ॥
आखण्डलसखो भक्तिं प्राप्तो नारायणे प्रभौ
॥१॥धार्मिकः पितृभक्तश्च पितॄन्देवांश्च तर्पयन् ॥
सदाचाररतो दक्षः क्षमावाननसूयकः
॥२॥सर्वोपकारकः शान्तो ब्रह्मचर्यरतः शुचिः ॥
अक्रोधनश्च मितभुङ्मृदुर्निर्व्यसनो मुनिः
॥३॥निर्द्वन्द्वो निर्विकारश्च निर्मानो धीर आत्मवित् ॥
निर्द्दम्भो मानदो योगी तपस्वी विजितेन्द्रियः
॥४॥धनपुत्रकलत्रेषु विरक्तः स्वजनादिषु ॥
नारायणमनुं भक्त्या स जजापान्वहं नृपः
॥५॥तस्मै तुष्टोऽथ भगवान्वासुदेवः स्वयं ददौ ॥
साम्राज्यं सोऽथ नासक्तस्तत्र भेजे तमादरात्
॥६॥तत्रोक्तेन विधानेन पञ्चकालसमाहितः ॥
पूजयामास देवेशं तच्छेषेण सुरान्पितॄन्
॥७॥तेषां शेषेण विप्राश्च संविभज्याश्रितांश्च सः ॥
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः
॥८॥भक्षणे दोषमविदत्प्राणिमात्रामिषस्य तु ॥
महापातकवद्राजा स्वप्रजाश्च तथाऽवदत्
॥९॥सर्वभावेन भेजेऽसौ देवदेवं जनार्दनम् ॥
अनादिमध्यनिधनं लोककर्त्तारमव्ययम्
॥१०॥श्रीवासुदेवपदयोः स चकार मनः स्थिरम् ॥
श्रोत्रे च नित्यं भगवत्कथायाः श्रवणे नृपः ॥
नयने स्वे मुकुन्दस्य तद्भक्तानां च दर्शने ॥
गुणगाने हरेर्वाणीं चक्रे भूमिपतिः स तु
॥१२॥नारायणांघ्रिसंस्पृष्ट तुलसीपुष्पसौरभे ॥
प्राणं चकार च नृपो नान्यगन्धेषु कर्हिचित्
॥१३॥श्रीशोपभुक्तवस्त्रादि स्पर्शने च त्वचं निजाम् ॥
चकार रसनामन्ने नारायणनिवेदिते
॥१४॥भगवन्मन्दिरक्षेत्रसदन्तिकगतौतथा ॥
चकार चरणौ राजा सेवायां च करौ हरेः
॥१५॥उत्तमांगं च चक्रेऽसौ विष्णुपादाभिवन्दने ॥
सख्यं चकार परमं महाभागवतेषु सः
॥१६॥एकोपि न क्षणस्तस्य विना भक्तिं रमापतेः ॥
जगाम किल राजर्षेस्तदीय व्रतचारिणः
॥१७॥महद्भिरेव संभारैर्विष्णोर्ज्जन्मदिनोत्सवान् ॥
चक्रे तदर्थमुद्यानमंदिरोपवनानि च
॥१८॥इत्थं नारायणे भक्तिं वहतो ब्राह्मणोत्तम ॥
एकशय्यासनं तस्य दत्तवान्देवराट् स्वयम्
॥१९॥वैजयन्तीं ददौ मालां तस्मा इन्द्रोऽतिशोभनाम् ॥
अम्लानपङ्कजमयीं तथा रत्नानि भूरिशः
॥२०॥आत्मा राज्यं धनं चैव कलत्रं वाहनादि च ॥
यत्तद्भगवतः सर्वमिति तत्प्रेक्षितं सदा
॥२१॥काम्या नैमित्तिकाजस्रं यज्ञियाः परमाः क्रियाः ॥
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः
॥२२॥पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ॥
प्रायणं भगवत्प्रत्तं भुञ्जतेस्माग्रतो द्विजाः
॥२३॥तस्य प्रशासतो राज्यं धर्मेणाऽमित्रघातिनः ॥
नानृता वाक्समभवन्मनो दुष्टं न चाऽभवत् ॥
न च कायेन कृतवान्स पापं परमण्वपि
॥२४॥पञ्चरात्रं महातन्त्रं भगवद्भक्तिपुष्टये ॥
शुश्रावानुदिनं राजा भगवद्भक्तवक्त्रतः
॥२५॥धर्मं संस्थापयञ्छुद्धं रञ्जयन्सकलाः प्रजाः ॥
पालयामास पृथिवीं दिवमाखण्डलो यथा
॥२६॥अपि सप्तविधस्तस्य राज्ये पललभक्षकः ॥
पुमान्कोप्यभवन्नैव न च पाषण्डवेषिणः
॥२७॥असाध्यो योषितश्चैव पुरुषाः पारदारिकाः ॥
न श्रुतास्तस्य राज्ये च धर्मसंकरकारिणः
॥२८॥एकादशविधं मद्यं त्रिविधां च सुरामपि ॥
नाजिघ्रदपि कोपीह तस्मिन्राज्यं प्रशासति
॥२९॥एवंगुणः स तु क्वापि पक्षपाताद्दिवौकसाम् ॥
मिथ्यालापाद्दिवो भ्रष्टः प्रविवेश महीतलम्
॥३०॥अन्तर्भूमिगतश्चासौ सततं धर्मवत्सलः ॥
नारायणपरो भूत्वा तन्मंत्रमजपत्स्थिरः
॥३१॥तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ॥
दिवं प्राप्य सुखं तत्र मनोभीष्टं समन्वभूत्
॥३२॥पुनश्चेदिपतिर्भूत्वा भुव्यसौ पितृशापतः ॥
पञ्चरात्रोक्तविधिना भेजे हरिमतन्द्रितः
॥३३॥स्वर्गलोकं ततः प्रापद्दिव्यदेहेन भूपतिः ॥
उपासनां च तत्रत्यैः परमर्षिगणैः सह
॥३४॥दृढीकुर्वन्भगवतः कञ्चित्कालमुवास तत् ॥
परं पदमथ प्रापद्वासुदेवस्य निर्भयम्
॥३५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य उपरिचरवसुसद्गुणवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥